________________
४ पा. ३ आ. शब्दकौस्तुभः ।
५५७ णांतर्भावात् कर्मान्तरायोगाच्च शब्दाययति देवदत्तेन । अकर्मकग्रहणेन तु येषां कालादिभिन्न कर्म न सम्भवति ते गृह्यन्ते । न त्वविवक्षितकर्माणापि । तेन मासमासयति देवदत्तमित्यादौ कर्मचं सिद्धम् । देवदत्तेन पाचयतीत्यादौ च न भवति । ग. त्यर्थाकर्मकेति सूत्रप्येवम् । अत एवाविवक्षितकर्मकेभ्यः पचिददातिप्रभातभ्यः कर्तरि तो न । अन्यथा पक्ववान् दत्तवानित्यर्थे पक्वो दत्त इति स्यात् । लाकर्मणीति सूत्रे तु अविवक्षितकमणां असम्भवत्कर्मणां वा ग्रहणम् । अत एवाविवक्षितकर्मणां न भावे लादय इतीह सूत्रे वदतो जेरणावित्यत्र तु नेह पच्यतइति भावे लकार इति ब्रुवतो हरदत्तस्य मतभेदपरत्वान पूर्वापरविरोध इति दिक् ॥
हकोरन्यतरस्याम् ॥ हा च का चेति विग्रहः । ह्रस्व क्रुश्चेति वा । अनयोरणौ कर्ता णौ वा कर्म स्यात् । नवेतिविभाषासूत्रे : उभयत्रविभाषास्विदं वार्तिककृता पठितम् । तथाहि । अभ्यवहारयति माणवकमोदनं माणवकेन वेत्यत्र प्रत्यवसानार्थत्वाप्राप्ते विकुर्वते छात्राः विकारयति छात्रान् छात्रवेत्यत्राकमकत्वात्माप्ते इतरत्र त्वमाप्ते विभाषेयम् । अभिवादिदृशोरात्मनेपदे वेति वक्तव्यम् ॥ अभिवादयतेरमाप्ते विभाषा | दृशेस्तु बुद्धयाद्यर्थत्त्वादुपसङ्ख्यानाद्वा प्राप्ते । आभिवादयति गुरुंदेवदत्तः अभिवादयते गुरुं देवदत्ते देवदत्तेन वा । णिचश्चेत्यात्मनेपदम् । परस्मैपदे तु अभिवादयाति गुरुं देवदत्तेन । दर्शयते राजानं भृत्यान् भृत्त्यैर्वा । कर्मसंज्ञाभावपक्षे कमान्तरस्याभा. वाणेरणावित्यात्मनेपदमन्यत्र तु णिचश्चेतीति पाञ्चः । वस्तुतस्तु णिचश्चेत्येव युक्तम् । णेरणावित्यस्य तु नायं विषयः । णिज्वाच्यप्रयुक्तिभेदादिति तत्रैवोपपादितम् ॥