SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५५८ शब्दकौस्तुभः । [१ अ. स्वतन्त्रः कर्ता ॥ क्रियाया स्वातन्त्र्येण विवक्षितोर्थः कर्ता स्यात् । धातूपात्तव्यापाराश्रयत्वं स्वातन्यम् । आह च । धा. सुनोक्तक्रिये नित्यं कारके कर्तृतेष्यतइति कर्मकर्तर्यप्यस्तदिम् । फलव्यापारोवधिकरण्यमात्रस्य पचावौत्सर्गिकस्य परं त्यागः । विशकलितशक्तिपक्षे विशिष्टशक्तिपक्षे चेदं तुल्यम् । नि. वृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितमिति पक्षे तु प्रधानभूतधात्वर्थ एवेह क्रिया धातुत्वं तु भूतपूर्वभावनार्थत्वात् । एतेन कारकाणां क्रियान्वयनियमोपि द्वेधा व्याख्यातः । देवदत्तः पचति । स्थाली पचति । अनन्यलभ्यस्य शब्दार्थत्वादाश्रयों लकारार्थः । देवदत्तेन पच्यते । देवदत्तरूपो य आश्रयस्त द्विशियो विक्लित्त्यनुकूलव्यापार इत्यर्थः । वैशिष्टयं चाधेयतारूपं संसगमर्यादया भासते ॥ तत्प्रयोजकोहेतुश्च ॥ तस्य कर्तुः प्रयोजको हेतुसंज्ञः स्याचात्कसंज्ञः । संज्ञासमावेशार्थश्चकारः । कुर्वन्तं प्रेरयति कारयति हरिः । हेतुत्वात्तद्वयापारे हेतुमतिचेति णिच् । कर्तृत्त्वाकर्तरि लकारः॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे . पादे तृतीयमान्हिकम् ॥ माग्रीश्वरानिपाताः ॥ अधिरीश्वरइत्यतः माक् प्राङ्निपाता इत्यधिक्रियते । तन्त्राद्याश्रयणात् । तेन पूर्व निपातसंज्ञाः सन्तः पश्चाद्गत्यादिसंज्ञा इत्यर्थात्संज्ञासमावेशः सिध्यति । अ. न्यथा गत्युपसर्गकर्मप्रवचनीयसंज्ञानां निपातसंज्ञायाश्च पर्यायः स्यात् । तन्त्रादौ प्रमाणं तु माग्ग्रहणसामर्थ्यमेव अन्यथा रीश्वरादिति पञ्चम्यैव दिशब्दाक्षेपात्किं तेन । न च परशब्दाक्षेपप्रसङ्गः । चादयोसत्वे प्रादय इत्येतयोर्विधेययोलाभेना
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy