SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६७ १ पा. २' आ. शब्दकौस्तुभः । रस्य वकार इति बहूपप्लवप्रसङ्गात् । ननु यथाश्रुतपि यथासंख्येन निर्वाहो दुरुपपादः । तथाहि । विर्धायमानतया यवला: सवर्णान्न गृह्णन्तीति चत्वारस्तावद् यणः । गुणानामभेदकतयानुनासिकसंग्रहेपि पृथग्गणनाविरहात् । इकस्तु सवर्णग्रहणात् षट्षष्टिः । न च षट्पष्टरुपस्थापकानामिक्शब्दवाच्यानामिकारादीनां चतुष्ट्वमस्त्येवेति वाच्यम् । तृतीयचतुर्थाभ्यामृकाराभ्यां प्रत्येकं तस्या एवं त्रिंशत उपस्थितौ सत्याम्लकारे रेफादेशस्य ऋकारे च लकारादेशस्य दुर्वारत्वात् । तस्मात्स्थानेन्तरतम इत्यनेनैव प्रकृते निर्वाहः। यथासंख्यमूत्रं तु नन्दिग्रहिपचादिभ्यइत्यादिषूपयोक्ष्यतइत्येव निष्कर्षः।तथाचेकोरणितिन्यासेपि तेनैव निर्वाहोस्त्विति चेन। वैषम्यात् । यथाश्रुते ह्यविरोधात्परिभाषाद्वयमपीकोयणित्यत्र प्रवर्तते । इको यथासंख्यमन्तरतमो यण् स्यादिति । रणिति न्यासे तु परिभाषयोर्विरोधात परत्वेन यथासंख्यमेव प्रवर्तेत । तस्मादनुचितो रेफस्य स्वस्थानादपकर्षः, यथाश्रुते तु द्वित्वादिदोषत्रयं दुर्वारमिति । अत्रोच्यते । रेफस्याविशेषतः श्रुतेन द्वित्त्वं प्रति निमित्तत्वेन सामान्यतः श्रुतं कार्यित्वं बाध्यते । यथा ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविष्टामिति विशेषतः श्रुतेन परिवेषणेन माठरकौण्डिन्ययोः सामान्यतः प्राप्तं भोजनं बाध्यते तद्वत् । यद्यपीह लक्ष्य व्यक्तिभेदेनोभयं सम्भवति तथापि सत्यपि सम्भवे सामान्यतः प्राप्तं विशेषप्राप्तेन बाध्यतइत्यभ्युपगमान्न दोषः । एवं चाचोरहाभ्यामिति सूत्रे यर इति रेफभिन्नपरमेवेति स्थिते अनचिचेत्यत्रापि तथैव । अर्थाधिकाराश्रयणात् । तेन हयनुभव इत्यादावपि रेफस्य न द्वित्वम् । नन्वेवं दध्युदकादौ यण् न स्यात् । विशेषतः श्रुतेन स्थानित्त्वेनेकां निमित्तत्वस्य बाधादिति चेन्न ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy