SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६६ शब्दकौस्तुभः । [१ अ० राद्धकारात् परस्य यर इति विधीयमानं द्वित्वं नास्तीत्यादौ यकारस्येव प्राप्नोति । न च रोरीति लोपः सुकरः। लोपं प्रति द्वित्वस्यासिद्धेः । हलो यमामिति लोपस्तु वैकल्पिक इति वक्ष्यमाणत्वात् । पक्षे रेफद्वयं श्रूयेत । न च व्यञ्जनपरस्यैकस्यानेकस्य वा उच्चारणे विशेषो नास्तीत्यसिद्धवत्सूत्रे भाष्यकृता वक्ष्यमाणत्वान्नायं दोष इति वाच्यम् । सूक्ष्मत्वाहुर्लक्ष्यो विशेष इति तदर्थात् । ननु सर्वथा विशेषविरहो ऽभिप्रेतः । शरोचि हलो यमामित्यादिशास्त्रवैयापत्तेः । तथा चतुर्मुख इत्यादौ यरोनुनासिकेनुनासिको वेति पक्षे णकारः प्रवर्तेत । स्थानसाम्यात् । कुण्डं रथेनेत्यादौ वा पदान्तस्येति पक्षे रेफः प्रवर्तेत । रेफोष्मणां सवर्णा न सन्तीत्येत,द्विजातीयः सवर्णो नास्तीत्येवंपरम् । स्वस्य स्वयं सवर्णो भवत्येव । तुल्यास्यप्रयत्नत्वात् । रोरीति लोपस्तु नास्ति । तं प्रति परसवर्णस्यासिद्धत्वात् । अथ द्वित्वानुनासिकपरसवर्णनिवृत्तये यवाभ्यां पूर्वत्र रेफोनुकृष्येत । हरयवडिति । तर्हि रलो व्युपधादित्येतद्वकारान्तष्वपि प्रवर्तत । ततश्च देवित्या दिदेविषतीत्यत्र पक्षे गुणो निषिध्येत । नन्वव्युपधादिति छित्वा अवकारांताद् व्युपधादिति व्याख्यास्यतइति चेत् । एवमपि गौधेरः पचेरन्नित्यादौ लोपो व्योरिति न प्रवर्तेत। रेफस्य वल्यनन्तर्भावात् । रलीति वक्ष्यामीति चेत् । हयगतौ, हय्यादित्यादौ यकारोतिप्रसङ्गः । ननु यथाश्रुतएव सूत्रे वलीति सरेफ पदं छित्वा रेफे बलि चेति व्याख्यानानोक्तदोष इति चेत् । एवमपीकोरणचि संयोगादेरातोधातोरण्वतः उदात्तरणो हल्पूर्वादिग्रणः सम्प्रसारणमित्यादिक्रमेण यण्ग्रहणानि सर्वाणि रेफेण ग्राह्याणि स्युः । न चैतावतापीष्टनिर्वाहः। इकोरणित्यत्र संख्यातानुदेशेनेकारस्य रेफः उकारस्य यकारः ऋका
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy