SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ १ पा. २ आ. शब्दकौस्तुभः। ६५ गुरुत्वाभावे प्लुतो न स्यादिति । अत्राहुः । व्यञ्जनमर्धमात्रमेव । आशूच्चारणात्तु तुल्यरूपयोर्द्वयोरेकत्वभूमः । इदं च शिष्टसमाचारात् प्रक्रियादशायामवश्यं स्वीकार्यम् । परमार्थदशायां तु,पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति वाक्यपदीयोक्तरीत्या स्फोटं सिद्धान्तयतां क्वास्य पूर्वपक्षस्यावसरः ॥ हयवरट् ॥ हकारोयं द्विरुपदिश्यते। यदि तु परत्रैवोपदिश्येत अडशहइण्ग्रहणेषु न गृह्येताततश्च अhणेत्यत्राव्यवायेपीति णत्वं न स्यात् । महान् हीति स्थिते महाँहीति न स्यात् । अत्र हि दीर्घादटि समानपादइति रुः । आतोटिनित्यमित्यनुनासिकः । भोभगोअघोअपूर्वस्येति यत्वम् । हलिसर्वेषामिति यलोपः । तत्राप्यशीत्यनुवर्ततइति वक्ष्यते । ब्राह्मणो हसतीत्यत्र हशि चेत्युत्त्वं न स्यात् । तथा लिलिहि। लिलिहिध्वइत्यत्र विभाषेट इति मूर्द्धन्यविकल्पो न स्यात् । तत्र हि इणः पीध्वमितिसूत्रादिण इत्यनुवर्तते । तदेवमटि अशि हशि इणि चेति चतुर्पु ग्रहणं प्रथमोपदेशस्य फलमिति स्थितम् । यदि तु परत्र नोपदिश्येत । वल्रल्झल्शल्ग्रहणेषु न गृह्येत । ततश्च रुदिहि स्वपिहीत्यत्र रुदादिभ्यः सार्वधातुकइति वलादित्वप्रयुक्त इण्न स्यात् । णिह प्रीतौ । स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिपतीत्यत्र रलोव्युपधादिति कित्वं न स्यात् । अदाग्धां अदाग्धमित्यत्र घत्वस्यासिद्धत्वाद्धकारादझलः परः सिजिति झलोझलीति न प्रवर्तेत । अधुक्षत् अलिक्षदित्यत्र शल इगुपधादनिट इति क्सो न स्यात् । तस्मात्प्रत्याहाराणां चतुष्टये प्रथमोपदेशस्य चतुष्टये च द्वितीयोपदेशस्य फलमस्तीतिं स्थितम् । स्यादेतत् । रेफस्य यकार्याणि प्राप्नुवन्ति । तद्यथा मद्रहदो भद्रहूद इत्यत्र अचः प
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy