________________
६८
शब्दकौस्तुभः ।
[ १ अ०
तत्र लक्ष्यानुरोधेन व्यक्तिपक्षाश्रयणात् व्यक्तिपक्षे हि प्रतिलक्ष्यमसलक्षणं प्रवर्त्तते । यद्वा । प्रतिलक्ष्यं भिन्नानां सर्वेषां लक्षणानां तंत्रेणोच्चारणभिकोयणचीति । ततश्चेकामपि तात्पर्यतो निमित्तत्वप्रतिपादनाददोषः । नचैवं श्रीश इत्यादावपि यण् प्रसंग: । व्यक्तिपक्षे विप्रतिषेधे परमेवेति नियमबलेन तद्वयक्तिविषयकशास्त्रस्यैव विरहकल्पनात् । एवमपवादविषयेपि सुश्रियावत्यादौ बोध्यम् । परिहृत्यापवादविषयं तत उत्सर्गोभिनिविशतइति न्यायात् । जातिव्यक्तिपक्षौ च लक्ष्यानुरोधाद्वयवस्था ssश्रीयेते इति पस्पशायामेवोक्तम् । तस्मादित्युत्तरस्य पत्युत्तरपदाण्ण्य इत्यादिनिर्देशाचेह लिङ्गम् । भाष्ये तु नेमी रहौ कार्यिणौ द्विर्वचनस्य किं तर्हि निमित्तमिमावित्युक्तम् । तत्र हकारग्रहणं दृष्टान्तार्थं तस्य यर्वहिर्भूततया यथा न द्वित्वे कार्यिता तथा यरन्तर्भूतस्यापि रेफस्येति । एवमनुनासिकपरसवविधी अपि स्थानेन्तरतमपरिभाषासंस्कृतौ स्थानप्रयत्नोभयान्तरतमे एतन्मुरारिस्त्वङ्करोषीत्यादौ क्वचिल्लब्धावकाशौ अनंतरतमे प्रागुक्ते न प्रवर्त्तेते जातिपक्षाश्रयणादेवेति संक्षेपः । अत्र वार्तिकम् । अयोगवाहानामसु णत्वं शर्पु जम्भावषत्वे । अविशेषेण संयोगोपध संज्ञालोंत्यविधिद्विर्वचनंस्थानिवत्वनिषे धा इति । अस्यार्थः । अविद्यमानो योगः प्रत्याहारेषु सम्बन्धो येषां ते ऽयोगाः अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाच्च प्रत्याहार - सम्बन्धशून्या इत्यर्थः । वाहयति निर्वाहयन्ति प्रयोगमिति वाहाः । अयोगाश्च ते वाहा श्वेति कर्मधारयः । अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः । ते च विसर्जनीयजिव्हामूलीयोपध्मानीयानुस्वारयमा इति भाष्यम् । एतच्च ऋति ऋवा लृति ऌ वेति विहितयोरीषत्स्पृष्टयोरप्युपलक्षणम् । तथा च तु
1