________________
शब्दकौस्तुभः ।
[ १ अ०
भादिवत्पारिभाषिकमेव कारकत्वकर्मत्वादिकं स्यादिति चेत् । को वा ब्रूते नेति । एतावानेव परं भेदः । टिघुभादीनां शब्दसंज्ञात्वमितरेषान्त्वर्थसंज्ञात्वमिति । एवञ्च कर्मणिद्वितीयेत्यनेन यथायथमाधारादावपि द्वितीया विधीयतइति फलितम् । रथेन गम्यते रथो गच्छतीत्यादावपि कर्तृविभक्तिरुत्सर्गेणैव सिद्धेति न तत्र लक्षणाश्रयणायेत्यवधेयम् । विभक्तीनां वाच्यांशानिष्कर्षस्तु करिष्यते । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोधमुद्भावयन्तः परस्ताः । शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादावुक्तिसम्भवात् । एतेन परसमवेतक्रियाफलशालित्वं कर्मत्वं चेदपादानेतिव्याप्तिरित्याशङ्क्य घात्वर्थतावच्छेदकफलशालित्वं तदिति परिष्कुर्वन्तोपि परास्ताः । ग्रामं गमयति देवदत्तमित्यादौ गन्तरि अव्याप्तेः । त्वन्मते गमनस्य प्रकृत्यर्थ - त्वेपि तथात्वानवच्छेदकत्वात् । तत्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः । तत्र पारिभाषिकमनुशासनोपयोगिकर्मत्वं वचनबलाद्वयवस्थितमिति चेत् । अपादानेपि तर्हि तन्नास्तीत्यवे - हि । एकसंज्ञाधिकारे ऽनवकाशया बाधात् । अत एवात्मानमात्मा हन्तीत्यादौ परया कर्तृसंज्ञया कर्मसंज्ञाबाधमाशङ्कयाहङ्कारादिविशिष्टात्मभेदमाश्रित्य तत्रतत्र भाष्ये समाहितमिति दिक् । नन्वेवं करणं कारकमिति सामानाधिकरण्यं कथम् । अस्वातन्त्र्येण ण्वुल्प्रत्ययायोगात् । अन्यथा कर्तृसंज्ञापत्तौ क रणसंज्ञायाः पर्यायापत्तेरिति चेत् । उच्यते । अधिकारसामर्थ्यात्कारकशब्दोपनीतं स्वातन्त्र्यमवस्थान्तरगतं विज्ञायते । अत्रस्थान्तरे यत्स्वतन्त्रं तत्साधकतमङ्करणमिति यथा कुरुक्षेत्रस्थाः काश्यां वसन्तीत्यादौ । कर्तुस्तु साम्प्रतिकं स्वातन्त्र्यम् । तच्च कर्तृसंज्ञायामुपयुज्यतइति । यद्वा । कारकशब्दः क्रिया
५२६