________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५२७
परः करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथा च अपादानादिसंज्ञाविधौ क्रियायामित्यस्योपस्थित्या क्रियान्वायनामेव तत्तत्संज्ञाः स्युः । कारकात्ततयोरित्यादौ तु कारकशब्दः स्वर्यते तेनैतदधिकारोक्तं कर्मादिषट्कमेव गृह्यतइति ॥
ध्रुवमपाये ऽपादानम् । अपायो विश्लेषो विभागस्तद्धेतुत्वोपहितो गतिविशेषश्वेह विवक्षितस्तस्मिन्साध्ये ऽवधिभूतमपादानसंज्ञं स्यात् । वृक्षात्पतति । ध्रुवमित्यत्र ध्रु गतिस्थैर्ययोरित्यस्मात्कुटादेः पचाद्यच् । ये तु ध्रुव स्थैर्ये इति पठन्ति । तेपामिमुपधलक्षणः कप्रत्ययः, ध्रुवतीति ध्रुवं स्थिरम् । एकरू पमिति यावत् । ध्रुवमस्य शीलमिति यथा । तथा चापाये साध्ये यदेकरूपमित्युक्ते प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तदुपयोगीति लभ्यते । तच्चार्थादवधिभूतमेव पर्यवस्यति । तेन धावतो ऽश्वात्पततीत्यादौ क्रियाया विशिष्टस्याप्यश्वस्य प्रकृतधातूपातक्रियां प्रत्यवधित्वन्न विरुध्यते । तथा परस्परस्मान्मेपावपसरत इत्यत्र सृधातुना गतिद्वयस्याप्युपादानादेकमेपनिष्टाङ्गतिं प्रत्यपरस्यापादानत्वं सिध्यति । उक्तश्च हरिणा प्रकी
•
काण्डे । अपाये यदासीनं चळं वा यदि वा ऽचलम् । ध्रु वमेवादावेव तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमिष्यते ॥ मेषान्तर क्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रिया पक्ष कर्तृत्वञ्च पृथक्पृथगिति । अतदावेशादिति अपायानावेशादि - त्यर्थः । गतिर्विना त्वधिना नापाय इति कथ्यतइति तत्रैवोक्तेरवधिनिरपेक्षस्य चलनस्यापायत्वाभावादिति भावः । पतात्पततो वात्पततीत्यत्र तु पर्वतावधिकपतनाश्रयो योश्वस्त