________________
५२८
शब्दकौस्तुभः ।
[ १ अ०
दवधिकं देवदत्तायं पतनमर्थः । पञ्चमी त्ववधौ शक्ता । तत्राभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम् । प्रत्ययार्थस्तु क्रियायां विशेषणम् । कारकाणां क्रिपयैव सम्बन्धात् । अन्यथा साघुत्वात् । क्रियान्वये सत्येव हि कारकसंज्ञा तत्पूर्विका विशेषसंज्ञाश्च स्थिताः । अत एवाहुः । नाम्नो द्विधैव सम्बन्धः सdवाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वापि कचिद्भवेदिति । सामानाधिकरण्येनेति नीलो घट इत्याद्यभिप्रायम् । नीलं घटमानयेत्यादावप्यन्तरङ्गक्रियान्वयानन्तरमेकक्रियावशीकृतानां पाणिभिप्रायञ्च । षष्ठयेति अकारकविभक्तेरुपलक्षणं हरये नम इति यथा । कचिदिति, अकारकविभक्ते - रपि, नटस्य शृणोतीत्यादौ क्रियान्वयदर्शनादिति भावः । एतेन भूतले घटो नेस्यत्र भूतलावेयत्वाभावो घटे भूतलाधेयत्वं वा घटाभावे विशेषणामेति द्वेधा व्याचक्षणा नैयायिकाः परास्ताः । उभयथापि क्रियानन्वये कारकविभक्तेरसाधुत्वात् । अर्थाभावे ऽव्ययीभावापतेश्च । तस्य नित्यसमासत्वात् । नवस्मदुक्तोपि बोधोस्मदर्शन व्युत्पन्नानामनुभवसाक्षिक इति चेत् । सत्यम् । न हि वयं बोध एवं नादेतीति श्रूमः । सर्वे सर्वार्थबोधनसमर्था इत्यभ्युपगमात् किन्तु तस्मिन्नर्थे ऽसाधुताम् । तथा च सिद्धे शब्दार्थसम्बन्धइति वार्तिकं व्याचक्षाणा भाव्यकारा आहुः । समानायामर्थावगतौ साधुभिश्चासाधुभिश्च गम्यागम्येतिवन्नियमः क्रियतइति । उक्तञ्च । भेदाभेदक'सम्बन्धोपाधिभेदनियंत्रितम् । साधुत्वं तदभावेपि बोधो नेह निंवार्यतइति ॥ एवञ्च कस्माद्वाक्यात्कीदृगुवोध इति प्रश्ने यो यथा व्युप्तन्नस्तस्य तादृगेवेति स्थितिः । कीदृशे बोधे साधुत्वं कुल नेति परं विचारविषय इति तत्त्वम् । एतेन घटः कर्मत्व