________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
६२९
मानयनं कृतिरित्यादीनां स्वरूपायोग्यतेति परास्तम् । तथाव्युत्पन्नस्य बोधानुभवात् । अन्यथा व्युत्पन्नस्य व्युत्पत्तिरूपसहकारिविरहात्कार्यानुदयेपि स्वरूपयोग्यतानपायात् । एतेन प्रकृत्यर्थप्रकारको बोधो यत्र विशेष्यतया तत्र विषयतया प्रत्ययजन्य इत्यादिकार्यकारणभावं कल्पयन्तोप्यपास्ता: । विपरीतव्युत्पादिते व्यभिचारस्योद्भवात् । सिद्धान्ते तु घटः कर्मत्वमित्याद्यसाध्येव । तथाहि । अभिहिते प्रथमेति वार्त्तिकं त कथं घटः कर्मत्वमिति प्रथमा । घटानयनयोरानयनकृती प्रति कर्मतया कर्तृकर्मणोरिति पष्ठीमसङ्गाच्चेति दिक् । निर्दिष्टा - विषयं किं चिदुपात्तविषयं तथा । अपेक्षितक्रियञ्चेति त्रिधापादानमुच्यते ॥ यत्र साक्षाद्धातुना गतिर्निर्दिश्यते तन्निर्दिष्टविषयम् । अश्वापततीति यथा । यत्र तु धात्वन्तरार्थी स्वार्थ धातुराह तदुपात्तविषयम् । यथा बलाहकाद्विद्योततइति, निःसरणाने विद्योतने द्युतिर्वर्तते । यथा वा कुलात्पचतीति । आदानांगे पात्र पचिर्वर्तते । अपेक्षितक्रियं तु तत् यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति कुतो भवानिति, पाटलि पुत्रादिति चोत्तरयति । अर्थाध्याहारस्य न्याय्यताया उक्तत्वात् । इह सार्थाद्धीयतइत्यपि निर्दिषृविषयस्वोदाहरणम् । स्यादेत - त् । परत्वात्सार्थस्य कर्तृसंज्ञा प्राप्नोति । उक्तं हि, अपादानमुत्तराणीति । किञ्च सार्थस्य कर्तृत्वाभावे त्यज्यमानस्य कर्मसंज्ञा न स्यात् कर्तृव्यापारव्याप्यत्वाभावात् । ततश्च हीयते हीन इति कर्मणि लकारो निष्ठा च न स्यात् । न च कर्मकर्तर्ययं लकार इति वाच्यम् । जहातेः कर्तृस्थक्रियत्वात्कर्मण्येवायं लकार इति इन्दुनोक्तत्वात् । यत्तु त्वपादाने चाहयिरुहोरिति सूत्रे न्यासकारेण सम्प्रदानसूत्रे कैयटेन चोकं कर्मसंज्ञा