________________
शब्दकौस्तुभः। [१ अ० यां कर्तृग्रहणं स्वातव्योपलक्षणम् । अतो हानक्रियायां स्वतन्त्रेणापादानेनेप्स्यमानस्येह कर्मतेति । तचिन्त्यम् । माषेष्वश्वं बन्धातीत्यत्र कर्मणोप्यश्वस्य वस्तुतो भक्षणे यत्स्वातन्त्र्यं तदाश्रयकर्मसंज्ञापत्तेः । अत एव कर्मसंज्ञाविधायकसूत्रशेषे कैयटेनोक्तम् । प्रयोजकव्यापारस्याशब्दार्थत्वात्तदपेक्षं कर्मत्वमयुक्तमिति । अत्राहुः । सार्थादीयतइत्यत्र कर्मकर्तरि लकारः । तथाहि । अपगमना जहातेरर्थः । सा च क्षुदुपघातादिना देवदतस्यापगमते तत्समर्थाचरणम् । यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम् । स्फुटमचेदं हरदत्तमाघवग्रन्थयोः । स्यादेतत् । ध्रुवग्रहणं किमर्थम् । न च प्रामादागच्छति शकटेनेत्यत्र शकटे ऽतिव्याप्तिवारणाय तदिति वाच्यम् । परत्वात्तत्र कारणसंज्ञाप्रवृत्तेः । यथा धनुषा विध्य. तीत्यत्र । इह हि शरनिःसरणं प्रत्यवधिभावोपगमेनैव व्यधने करणतेत्युभयप्रसङ्गः । वृक्षस्य पर्ण पततीत्यादौ तु वृक्षः प. विशेषणं न त्वपायेन युज्यते । न च संज्ञिनिर्देशार्थ ध्रुवनहणम् । अपाये क्रियायां यदन्वेतीत्यस्याक्षिप्तस्य संज्ञिसमर्थकत्वात् । यद्वा कारके इति निर्धारणसप्तम्याश्रयणात्कारकमिति लभ्यते । पूर्वत्रापि प्रथमार्थे सप्तमीत्युक्तत्वाच्च । तस्माद् ध्रुवग्रहणं चिन्त्यप्रयोजनम् । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् । अधर्माज्जुगुप्सते विरमाति प्रमाद्यति वा । संश्लेषपूर्वको विश्लेषो विभागः । स चेह नास्ति । बुद्धिकल्पितस्तु गौणत्वान गृह्यतइति वार्तिकारम्भः । भाष्यकारास्तु जुगुप्सादयोत्र जुगुप्सादिपूर्विकायां निवृत्तौ वर्तन्तइत्युपातविषयमेतत् । कारकमकरणे च गौणस्यापि ग्रहणम् । साधकतममिति तमग्रहणाल्लिङ्गात् । अपायादिपदानां स्वरितत्वाद्वा स्वरितेनाधिकारः,