________________
४ पा. ३ आ.
शब्द कौस्तुभः ।
गौणोप्यर्थी गृहातइति व्यवस्थापनात् । तेन बुद्धिकल्पितस्याप्यपायस्य सत्वात्सिद्धम् । पूर्वे हि बुद्धया धर्म सम्प्राप्य ततो दोषदर्शनाभिवर्तत इत्यस्त्यपायः । एवमुत्तरसूत्रेष्वपि मपञ्चलं बोध्यमिति दिक् ||
५३१
भीत्रार्थानां भयहेतुः ॥ भयं भी त्राणं त्राः भयार्थानां त्राणार्थानाश्च योगे भयहेतुः कारकमपादानं स्यात् । चोरेभ्य उद्विजते बिभेति रक्षति वा त्रायते भयहेतुग्रहणं चिन्त्यमयोजनम् | अरण्ये विभेतीत्यादौ तु परत्वादधिकरणसंज्ञा । कस्य विभ्यति देवाश्च जातरोपस्य संयुगइति रामायण श्लोकस्तु कस्य संयुगइति योजनया व्याख्येयः ॥
पराजेरसोढः || परापूर्वस्य जयतेः प्रयोगे ऽसोढोह्योथोपादानं स्यात् । अध्ययनात्पराजयते ग्लायतीत्यर्थः । अकर्मकश्चायम् । तत्र पठयां प्राप्तायां वचनम् । असोढः किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः । असोढ इति क्तार्थो भूतकालोत्राविवक्षितः तेनाध्ययनात्पराजेष्यतइत्यादि सिद्धम् । वस्तुतस्तु असोदग्रहणं व्यर्थे शत्रून्पराजयतइत्यत्र परत्वात्कर्मसंज्ञासिद्धेः । इह सूत्रे पराजेरिति रूपं विपराभ्याब्जेरितिवत्समर्थनीयम् । यत्तु परत्वात् घेङितीति गुण इति हरदत्तेनोक्तं तत्सूत्रभाष्यादिविरुद्धमिति प्रागेव प्रपञ्चितम् ॥
वारणार्थानामीप्सितः ॥ वारणार्थानां प्रयोगे क्रियया आप्तुमिष्टं कारकमपादानं स्यात् । यवेभ्यो गां वारयति वृञ् वरणे, चुरादिः । प्रवृत्तिविघातो वारणम् । ईप्सित इति किम् । यवेभ्यो गां वारयति क्षेत्रे । नन्विह परत्वादधिकरणसंज्ञा भविष्यति यथा कृतेपीप्सितग्रहणे गोषु इप्सिततमत्वप्रयुका कर्मसंज्ञा । सत्यम् । चिन्त्यप्रयोजनमेवेप्सितग्रहणम् ॥
।