________________
शब्दकौस्तुभः ।
[ १ अ०
अन्तर्धौ येनादर्शनमिच्छति । अन्तर्धाविति सप्तमी येनेति कर्तरि तृतीया । न च कुद्योगे षष्ठीप्रसङ्गः । उभयप्राप्तौ कर्मण्येवेति नियमात् । व्यवधाने स्रति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तस्कारकमपादानं स्यात् । मातुर्निलीयते कृष्णः । लीङ् श्लेषणे दैवादिकः । अत्रान्तर्धाविति चिन्त्य - प्रयोजनम् । न दिदृक्षते चोरानित्यत्र हि परत्वात्कर्मता सिद्धा । इच्छतीति किम् । इच्छायामसत्यां सत्यपि दर्शने यथा स्यात् ।।
५३२
आख्यातोपयोगे ॥ उपयोगो नियमपूर्वकं विद्यास्वीकरणम् । तस्मिन्साध्ये य आख्याता तत्कारकमपादानं स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य शृणोति ॥
3
जनिकर्तुः प्रकृतिः ॥ जायमानस्य हेतुरपादानं स्यात् । पुत्रात्प्रमोदो जायते । इह जनिरुत्पत्तिः । जनिरुत्पत्तिरुद्भव इत्यमरः । इञजादिभ्य इति जनेर्भावे इय् जनिघसिभ्यामित्युणादिसूत्रेणेण वा । जनिवध्योश्चेति वृद्धिप्रतिषेधः । तस्याः कर्तेति षष्ठीतत्पुरुषः । कर्तरि चेति प्रतिषेधस्त्वनित्यः अत एव ज्ञापकात् । यद्वा शेषषष्ठया समासोयम् । निषेधस्तु कर्मषष्ठीविषय इति कारकइति सूत्रे कैयटः । तथा चार्थमात्रस्य ग्रहणाद्धात्वन्तरयोगोपि भवति अङ्गादङ्गात्सम्भवतीति यथा । एतेन इकाइतपौ धातुनिर्देशइतीका निर्देशोयमित्याश्रित्य गमहनेत्युपधालोपमर्थासङ्गतिं चोद्भावयन्तो मीमांसावार्तिककाराः समाहिताः । अत्र प्रकृतिग्रहणमुपादानमात्रपरामित्येके । अत एव प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधादित्यधिकरणे ब्रह्मणो जगदुपादानतायां यतो वा इमानि भूतानि जायन्तइति पञ्चमीमुपष्टम्भिकामाहुः । अन्ये तु पुत्रात्ममोदो जायतइति वृत्तिस्वरसात्मकृतिशब्द इह कारणमात्र पर इत्याहुः । अस्मिंश्च पक्षे यतो