________________
४२६
शब्दकौस्तुभः । [१ अ. पक्षे विशाखे । छन्दसीत्यनुवृत्तेलोंके विशाखेइत्येव । अमरस्तु राध विशाखेति प्रयुञ्जानो द्विवचननियमं नेच्छति । सूत्रं तूदासीनम् ।।
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ छन्दसीति न सम्बध्यते पूर्वत्र चकारेणानुकृष्टत्वात् । एतदर्थ एव हि पूर्वत्र योगविभागः । तिष्य एकः । पुनर्वसू द्वौ । तेषां द्वन्द्वो बव्हर्थः । तत्र बहुत्वं द्वित्ववद्भवतीत्यतिदेशो ऽयम् । तिष्यपुनर्वसू उदितौ । तिष्यपुनर्वसू इति किम् । विशाखानुराधाः । नक्षत्रेति किम् । तिष्य पुनर्वसवो माणवकाः । ति. ष्यपुनर्वसुशब्दाभ्यां नक्षत्रेण युक्तः काल इत्यण् लुबविशेषे । ततो जातार्थे सन्धिवेलादिसूत्रेणाः। तस्य श्रविष्ठाफल्गुन्यनुराधेत्यादिना लुक् । माणकत्तिरयं द्वन्द्वो न तु नक्षत्रवृत्तिः । न चायं गौणः । यौगिकत्वात् । ननु नक्षत्रइत्यनुवृत्त्या सिद्धमेतत् । किं पुनर्नक्षत्रग्रहणेन । अत्र भाष्यम् । पर्यायाणामपि यथास्यादिति । तस्यायं भावः। तिष्य पुनर्वस्वोः शब्दयोरभिधेये नक्षत्रे वर्चमानो यो नक्षत्रशब्दानां द्वन्द्व इति व्याख्यानात् । पुष्यपुनर्वसू सिध्यपुनर्वसू इत्यपि सिध्यतीति । स्यादेतत् । यथा भावेचाकर्मकेभ्य इत्यकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न तु बहिरङ्ग कालादि कर्म तथान्तरङ्गस्य कालस्य व्यावृत्या बहवास्तिष्यपुनर्वसवोतिक्रान्ता इत्यादेः सिद्धावपि माणषकस्य बहिरङ्गस्य व्यावृत्तये पुनर्नक्षत्रग्रहणमस्तु । यद्वा । ति. ष्यपुनर्वस्वोरिति योगं विभज्य देशान्तरस्थमपि तिष्यस्य का. र्य नक्षत्रएवेति व्याख्यास्यते । तेन तिष्यपुष्ययोर्नक्षत्राणि य. लोप इति सिद्धम् । तस्माद्वहिरङ्गव्यावृत्त्या योगविभागेन वा कृतार्थ नक्षत्रग्रहणं कथं पर्यायग्रहणार्थ स्यात् । उच्यते । अकर्मकशब्दः श्रुत्यैव कर्म व्यावर्तयन् मुख्यमन्तरङ्गमेव व्यावर्त्त