________________
२ पा. २ आ.
शब्दकौस्तुभः ।
४२५
वा । सविशेषणस्य प्रतिषेधः । पटुरहं ब्रवीमि । कथं तर्हि त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता इति भर्तृहरिः । अत्रोतत्वस्य विधेयत्वाद्भवत्येव । अनुवाद्यविशेषणपरत्वात्मतिषेधस्येति हरदत्तः । भाष्ये त्वेतत्सूत्रं प्रत्याख्यातम् । तथाहि । अहंकारावच्छिन्नेभ्यस्तानाञ्चक्षुरादीन्द्रियाणां तत्तादात्म्यादहमुल्लेख गोचरता भेदाभेदप्रतीतिश्च । अहं शृणोमीति वन्मम श्रोत्रं शृणोतीत्यपि व्यवहारात् । तत्र चक्षुरादीनां बहुत्वादेदस्वातन्त्र्ययोर्विवक्षायां वयं ब्रूम इति सिद्धम् । अभेदमविवक्षायां तु एकवचनम् । न च गौणता । गौरोहमित्यादीनां यावद्व्यवहारं बाधाभावात् । एतेन पुष्यादिगुरावेकेषामिति - त्तिकारेण पठितमपि गतार्थम् । त्वं गुरुर्यूयं गुरव इत्यस्यो - क्तरीत्या सिद्धेः । अत एवाचार्याः कथयन्तीत्यादिलौकिकप्रयोगोपि सङ्गच्छते ||
फल्गुनीप्रोपदानाञ्च नक्षत्रे ॥ द्वयोरित्यनुकर्षाद द्विवे बहुत्वप्रयुक्तं कार्य वा विधीयते । तेन विशेषणेपि सिद्धं, पूर्वे फल्गुन्यौ पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् । फल्गुन्यौ माणावके । फल्गुन्योजते इत्यर्थः । फल्गुन्यपादाभ्यां टाणाविति टः । टित्त्वान्ङीप् । एकस्यान्तु । तारायां नेमौ शब्दौ प्रयुज्येते । उद्भूतावयवभेदे समुदायएव निरूढत्वात् । सूत्रे तु नक्षत्रे इति प्रथमाद्विवचनं नक्षत्रे यद्यभियेते इत्यर्थात् ॥
छन्दसि पुनर्वस्वोरेकवचनम् ।। द्वयोरेकवचनं वा स्यात् । पुनर्वसुर्नक्षत्रमदितिर्देवता पुनर्वसु वा । लोके तुद्भूतावयवसमुदाये निरूढत्वाद्द्द्विवचनमेव । गाङ्गताविव दिवः पुनर्वसू || विशाखयोश्च ।। प्रात् । विशाखा नक्षत्रमिन्द्राग्नी देवता ।
-