________________
१२२ शब्दकौस्तुभः । [१ अ० उपसंजनिष्यमाणनिमित्तोप्यपवाद उपसंजातनिमित्तमप्युत्सर्ग बाधतइति न्यायाच्च । अन्यथा दधतीत्यादावन्तरंगत्वात् झोन्त इत्यन्तादेशः प्रवर्तेत । न च श्लौ द्वित्वे चैवंकृते अन्तादेशस्य स्थानिवद्भावेनादभ्यस्तादित्यस्य प्रवृत्तिरास्त्विति वाच्यम् । अल्विधौ स्थानिवद्भावासंभवात् । किश्च । समर्थानांप्रथमावेति सूत्रे ऽकृतव्यूहाः पाणिनीयाः कृतमपि शास्त्रं निवर्तयन्तीति ज्ञापयितुं समर्थग्रहणमिति वक्ष्यते। वे एते परिभाषे समानफले इति च तत्रैव स्फुटीकरिष्यते।तथा चेहापिपूर्व गुणो नक्रियेत कृतोपि वा निवर्तेत जग्मुष इत्यादाविडादिवत् । तस्माद्धातोर्लोपो यस्मिन्निति बहुव्रीहिरेव साधुः । एवं हि सति लोपस्य गुणवृद्धयोश्चैकनिमित्तकत्वं लभ्यतइति न कश्चित्पूर्वोक्तदोषः । स्यादेतत् । आरभ्यमाणेप्यस्मिन्सूत्रे लोलुव इत्यादौ गुणोदुर्वारः।तथाहि।इह सूत्रे क्ङितिचेति सूत्रे च निषध्य किमित्याकांक्षायां पूर्वत्र निर्णीता इपदोपस्थितिरेव सम्बध्येत । धात्वंशलोपनिमित्ते आर्दधातुके इक्पदं नोपतिष्ठते । ततश्च बेभिदः मरीमृजो भिन्नो मृष्ट इत्यादौ व्यंजनस्य गुणवृद्धिप्राप्तिः परमेतस्य प्रघट्टकस्य फलं स्यात् । लोलुवादौ तु स्यादेव गुणः । न च परिभाषां प्रति शेषिभूततयार्थतः प्रधानयोगुणवद्धयोरेव निषेधोस्त्विति वाच्यम् । शाब्दबोधे शाब्दप्राधान्यस्यैवान्वयनियामकताया उचितत्वात् । नहि राजपुरुषमानयेत्यादावर्थतः प्रधानभूतोपि राजा आनयनेनान्वेति अपि तु पुरुषएव । प्रकृते च शाब्दं प्राधान्यं वाक्यार्थभूतायाः पदोपस्थितेरेव । कारकविशिष्टा क्रिया वाक्यार्थ इति सिद्धान्तात् । आह च । साकांक्षावयवं भेदे परानाकांक्षशब्दकम् । कर्मप्रधानं गुणवदेकार्थ वाक्यमुच्यतइति । किं च सिद्धान्ते प्रसज्यप्रतिषेधे सर्वत्र क्रिययैव सह नओन्वयो नतु नामार्थेन । तदक्तम् । प्रसज्यप्रतिषेधो