________________
१ पा. ४ आ. शब्दकौस्तुभः ।
१२७ नीस्रंसो दनीध्वंसः,अनिदितामित्युपधालोप: स्यात् । अपि च यायाः वावाः इत्यादिष्वाकारलोपः स्यात् । तस्मात्समुदायलु. गेवैष्टव्यो लोलुवादिसिद्धये च सूत्रमारम्भणीयमिति । अत्रोच्य. ते । लोलुवादिषु गुणस्तावन भवति । स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्वेन स्थानिवद्भावात् । अत एव हि न पदा. न्तति सूत्रे सवर्णग्रहणं कृतम् । शिण्ढीत्यादावनुस्वारस्य स्थानिद्वारकमनादिष्टादचः पूर्वत्वमाश्रित्य तस्य सवर्णे कर्तव्ये नसोरल्लोपस्य स्थानिवद्भावो मा भूदिति । नन्वनादिष्टादचः पूर्वत्व: स्य शास्त्रीय कार्यत्वाभावात्कथमतिदेश इति चेत्। अनादिष्टादचः पूर्वत्वापेक्षे ऽचः परस्मिन्नित्यतिदेशे कर्तव्ये स्थानिवदादेश इ. त्यस्य प्रवृत्तिसम्भवात् । सवर्णग्रहणव्याख्यावसरे सर्वैरित्थमेवोपपादितत्वाच्च । ननु योत्रादेश उवङ् सोनादिष्टादचः पूर्वतो स्थानिद्वारा कथञ्चिल्लभतां न तु तस्येह किश्चित्कार्य विधीयते येनाल्लोपः स्थानिवत्स्यात् । यस्य च कार्य विधीयते उकारस्य नासावादेशः येन स्थानिद्वारापि पूर्वतां लभेत । सत्यम् । सर्वे सर्वपदादेशा इत्याश्रयणात्स्थान्यादेशिभावस्तावदर्थवति विश्रान्यति। अत एव एरुरित्यस्य तेस्तुरिति पर्यवसितार्थमाश्रित्य स्थानिवत्सूत्रेणैव सिद्धत्वादेकदेशविकृतस्योपसंख्यानं नारब्धव्यमिति वक्ष्यते । अत एव च स्थानिवदित्युक्तौ सम्बन्धिशब्दत्वादेवादेश इत्यस्य लाभे सिद्ध पुनरादेशग्रहणमानुमानिकस्याप्यादेशस्य परिग्रहार्थमिति वक्ष्यते । एवञ्चेहापि लो. लू इत्यस्य लोलुइत्यादेशः, स चानादिष्टादचः पूर्वः स्थानिव. द्भावात् । तस्य च लोलोव् इत्यादेशे कार्ये ऽल्लोपः स्थानिवदिति युक्तमेव । किञ्च । शाजनोर्जेति रीङ् ऋत इति च सूत्रे दी. ?च्चारणेनावृत्ते पुनर्वृत्तावविधिनिष्ठितस्येति परिभाषा ज्ञाप.