SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुभः । रतो विशेषणेनैव ॥ वृद्धिर्यस्याचामादिस्तद्वद्धम् ॥ यस्य समुदायस्यावयवा. नामचा मध्ये प्राथमिको वृद्धिसंज्ञकः स वृद्धसंज्ञकः स्यात् । आमूगुप्तीयः । वृद्धाच्छः । अचामिति जातौ बहुवचनं तेन द्वयोरपि भवति । शालीयः । एकस्यापि च भवति व्यपदेशिवद्भावात् । ज्ञा ब्राह्मणी तस्या अयं ज्ञीयः । वा नामधेयस्य । पौरुषेयं नाम तस्य वृद्धसंज्ञा वा स्यादित्यर्थः । उभयत्रविभाषेयम् । देवदत्तादीनामप्राप्ते वामनादीनां च प्राप्ते आरम्भात् । देवदत्तीयाः । देवदत्ताः। विधाय मूर्ति कपटेन वामनीमिति श्रीहर्षः। गोत्रोत्तरपदस्य च । नित्यं वृद्धसंज्ञा वक्तव्यति शेषः । कम्बलचारायणीयाः। ओदनपाणिनीयाः घृतरौढीयाः । कम्बलपियस्य चारायणस्य शिष्या इत्यादिरर्थः। पणनं पणः । घबर्थे कविधानमितिकः।सोस्यास्तीति पणी । पणिनो गोत्रापत्यं पाणिनः। अण्। गाथिविदथिकेशिगणिपणिनश्चति प्रकृतिभावः। ततो यूनीन् । पाणिनिः । स्यादेतत् । ण्यक्षत्रियार्षत्रित इति सूत्रेणेह इनो लुक् प्राप्नोति । आषांयून्युत्पनत्वादिति चेन्न । आर्षग्रहणेन ऋष्यन्धकोति सूत्रविहितस्य ऋष्यण एव ग्रहणात् । अस्य चौसर्गिकत्वात् । यद्वा । पणिन् शब्दो यौगिको न तु ऋषौ गूढः । लुग्विधौ तु रूढस्यैव ग्रहणम् । एतच्च शास्त्रान्तएकशेपनिर्देशाद्वा भगवतः पाणिनेः सिद्धामति वार्तिकनिर्देशादाक्षीपुत्रस्य पाणिनेरिति भाष्यकारव्यवहाराच्च निर्णीयते । नन्वेवमपि पाणिनेश्छात्राः पाणिनीया इति न सिध्यति । वृद्धाच्छं बाधित्वा इअश्चेत्यणः प्रसङ्गात् । न च छे विवक्षिते यूनिलुगितीको लुकि सति नायमित्रन्त इति वाच्यम् । प्रत्ययलक्षणेन इअन्तवानपायात् । अत्राहुः । इअश्चेत्यत्र कण्वादिभ्योगोत्रइत्यतो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy