SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३७४ शब्दकौस्तुभः । [ १ ५० " श्रितेत्यत्र च स्पष्टम् । अरुद्युक्षोवरुण इन्द्रसखा, आग्नेयाहिमरुसखेत्यादि प्रयोगाचैवमेत्र सङ्गच्छन्ते । एतेन घिसंज्ञासूत्रे शोभ नः सखा अस्य सुसखिरित्युदाहरन् हरदत्तो न्यासकारश्चापास्तः । त्रेत्रय इति तु त्रिशब्दार्थसमवेत संख्याद्यभिधायिन्यामिपरे इति व्याख्यानाद्गौणे न भवति, प्रियत्रीणाम् अतित्रीणाम् । प्राधान्ये तु स्यादेव परमत्रयाणामित्याहुः । अत्र व्याख्याने प्रमाणं मृग्यम् । इह पदाङ्गाधिकारइति न कर्त्तव्यम् । तदन्तग्रहणेनैव सकलष्टसिद्धेरित्युक्तं न विस्मर्त्तव्यम् । प्रत्ययग्रहणे यस्मात्सविहितस्तदादेस्तदन्तस्य ग्रहणम् । इह प्रत्ययाक्षिप्तस्य धा तुमातिपदिकाद्यवयवकसमुदायस्य प्रत्ययेन विशेषणात्तदन्तविपिर्लभ्यते । अङ्गसंज्ञासूत्रे यस्मात्प्रत्ययविधिस्तदादिप्रत्यये इति योगं विभज्य परिभाषात्वेन व्याख्यानादंशान्तरलाभः । इदं च संज्ञाविधौ न प्रवर्त्तते, सुप्तिङन्तं पदमिति ज्ञापकात् ! उत्तरपदाधिकारेपि न प्रवर्त्तते, हृदयस्यहृल्लेखयदण्लासेष्विति सूत्रे लेखग्रहणाज्ज्ञापकादिति वक्ष्यते । अस्यापवादमाह । म त्ययग्रहणं चापञ्चम्या इति । यत्र पंचम्यन्तं प्रत्ययस्य विशेषणं तत्र तदन्तग्रहणं नेत्यर्थः । यथा रदाभ्यांनिष्ठात इत्यत्र । तेन दृषत्तीर्णेत्यत्र तृधातोस्तकारस्य निष्ठान्तप्रत्ययावयत्रीभूतस्य नत्वं न भवति । इह प्रघट्टके संज्ञाविधावुत्तरपदाधिकारे रदाभ्यां स्यतासलिलुटोरित्यादौ च प्रत्ययो विशेष्यतया श्रीयते, इतरत्र तु विशेषणतयेति फलितार्थः । तदिदं सकलं सूत्रेणैव सिद्धयतीति स्थितम् । सौत्रस्य तदन्तविधेर्वाचनिकमपवादमाइ वार्तिककारः । यस्मिन् विधिस्तदादावल्ग्रहणे । अचिनुधात्विती वडुवङ् च यथेह भवति । श्रियौ भवावित्येवमिहापि सिद्धपति श्रियः भ्रुत्र इति । तदन्तविध्यपवादस्तदादिविधि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy