SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुभः । ३८१ पिन भवतीति वाक्यार्थद्वयं डितिचेति सूत्रे वर्णितस्माभिः । भाष्ये तु हलश्नः शानजिति सूत्रे स्थितमेतत् ॥ असंयोगाल्लिट् कित् ॥ असंयोगात्परोपिल्लिद् कित् स्या। निन्यतुः बिभिदतुः। अपित्किम् । बिभेद । असंयोगात्किम् । सस्रंसे । डिवे प्रकृते कित्करणं यजादीनां कितीति सम्प्रसारणार्थम् । ईजतुः ईजः । पूर्वत्रापि कित्त्वं कुतो न कृतमि चेत् , वतो वक्य इत्यत्र सम्प्रसारणापत्तेः । जागृतः जाग्रतीत्यत्र गुणापत्तेश्च । डिवे तु वच्यादीनां कितीत्युक्तेर्न सम्प्रसारणम् । अजाग्रोविचिण्णल्डित्स्विति पर्युदासान गुणः । ऋदुपधेभ्यो लिट: किन्त्वं गुणात्पूर्वविप्रतिषेधेन । किन्त्वस्यावकाशः ईजतुः ईजुः । गुणस्यावकाशः चेतति वढते ववृधे इत्यत्र पूर्वविप्रतिषेधाकित्त्वम् ॥ इन्धिभवतिभ्यां च ॥ आभ्यां लिट् कित्स्यात् । समीधे दस्युहन्तमम् ,पुत्रईधे अथर्वणः । बभूव । बभूविथ । इन्धेः संयोगार्थ ग्रहणं भवतेस्तु पिदर्थम् । इन्धीत्युच्चारणार्थेनेकारेण निर्देशः । सुतियोरिति वत् । नत्विश्तिपावितीका, नलोपापत्तेः । अत्र वार्तिकम् । इन्धेश्छन्दोविषयत्वाद्भुवोवुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यामति । अयमर्थः, इन्धेर्भाषायामिजादेश्चेत्यामा भाव्यम् । छन्दास तु अमन्त्रइति प्रतिषेधाद्यद्यप्याम्नास्ति तथापि छन्दस्युभयथेति लिटः सार्वधातुकत्वे डित्त्वात्समीधे इति नलोपः । श्नमभावस्त्वार्धधातुकत्वात् । व्यत्ययाद्वाभुवोपि वुङ् नित्यत्वादेव गुणवृद्धी बाधिप्यते । न च शब्दान्तरप्राप्त्या युगनित्य इति वाच्यम् । कृताकृतपसङ्गित्वमात्रेणापि लक्ष्यानुरोधान्नित्यत्वस्याश्रयणात् । शब्दान्तरमाप्त्या स्वरभिन्नस्य प्राप्त्या चानित्यतायाः सिद्धान्ते ब
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy