________________
७६
शब्द कौस्तुभः ।
१ अ०
1
अतः प्रत्ययोत्पत्तिवेलायामेजन्ता न सन्त्येव । ऋदन्ताः परमवशिष्यन्ते । तत्रोरित्येव लाघवाद् ब्रूयात् । वस्तुतस्तु सामान्यलक्षणेनैव ऋदन्तेषु घञः सिद्धत्वात्सूत्रमेवेदं न कुर्यात् । अथोच्येत । इङश्चेत्यारंभसामर्थ्यादिवर्णोवर्णान्तेष्वेवाजन्भ्यां सह वैकल्पिको घन् समाविशत्विति । तदपि न । एवं हि सति अजपाविधावेव वाग्रहणं कुर्यात् । क्रीड्जीनां णाविति न प्रत्याहारः । क्रीज्योः पृथग्ग्रहणवैयर्थ्यापत्तेः । न चेकारान्तानां मध्ये एतयोरेवोत नियमार्थ पृथग्ग्रहणमिति वाच्यम् । एवं हीक इत्ये ब्रूयात् । ङन्तानां सामान्यलक्षणेनैवात्वस्य सिद्धत्वात् । इङ्घार्योरित्यपि न प्रत्याहारः । धारिणा साहचर्यात् । तस्मात्सिद्धं ङकार एकस्मादेवेति । तथा यकारोप्येकस्मादेव । अतो दीर्घो यनीति । तथा अइउणित्येष णकारोप्येकस्मादेव । अणिति यथा । अथेणः षीध्वमित्यादाविण्प्रत्याहारोप्यनेन कुतो नेति चेन्न । अचि नुधातुभ्रुवां य्वोरित्यत्रेकारोकारयोः स्वरूपेण निर्देशात् । अन्यथा हि संहितायां मात्रालाघवात्पदच्छेदेप्यर्द्धमात्रालाघवादिण इत्येव ब्रूयात् । व्याख्यानाच्च पूर्वेण न तु परेण ग्रहीष्यते । व्याख्यानं च सिद्धान्तेपि शरणम् । खोरित्यपि हि निर्देशे किं ह्रस्वयोर्ग्रहणमुत दीर्घयोरुत यकारवकारयो-: रिति सन्देहः स्यादेव । एवं चैच इग्घूस्वादेश इति सूत्रे इणित्येव प्रतिपत्तिलाघवार्थं वक्तव्ये इग्ग्रहणमपीह लिङ्गम् । इण्ग्रहे हि तत्र यथासंख्यप्राप्तिरेव नेति न तत्परिहाराय यतितव्यमिति दिक् । एवं वकारोप्येकस्मादेव । नश्छव्यप्रशानिति । एचोयवायाव इति सूत्रे अविति न प्रत्याहारः । अयादिसाहचर्यात् । एवं टकारोप्येकस्मात् । अट् क्चुप्याङिति । द्वाभ्यां षः । एकाचो बशो भष् झषन्तस्य स्ध्वारिति यथा । ककार
-