________________
१ पा. २ आ.
शब्द कौस्तुभः ।
७५
यो प्रयोगगतम् । तस्मान्मास्तु मकारोनुबन्ध इति स्थितम् ।
घढधष्।। जबगडदश् ।। खफछ्ठथचटतव् । कपय् । शषसर् ॥ हल् || इति माहेश्वराण्यक्षरसमाम्नायसूत्राणि । अत्रायं संग्रहः । एकस्मान्ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चौ चतुर्भ्यो रः पञ्चभ्यः शलौ शभ्य इति । अस्यार्थः । उञणवटा एकस्मात्परे ग्राह्याः स्युः । तथाहि । ङकार एकारादेव परो ग्राह्यः । एङि पररूपमिति यथा । ननुषिद्विदादिभ्योङ् अस्यतिवक्तिख्यातिभ्योङित्यकारेण ग्रहणमस्त्विति चेन । आदिरन्त्येनेत्यत्राणुदित्सवर्णस्य चेत्यतोऽप्रत्यय इत्यनुवृत्तेः । अत एव रोः सुपीति न प्रत्याहारग्रहणम् । सुपि चे - त्यत्र तु अप्रत्यय इति प्रतिषेधो नास्ति । यञादाविति विशेषणात् । उत्तरत्र च बहुवचने झलीति विशेषणात् । सुप्तिङन्तं पदमित्यत्र तिउसाहचर्याच्छास इदहलोरित्यत्र तु अङ्ग्रहणसामर्थ्यादपि प्रत्याहारग्रहणं न भवति । अङादौ हलादौ चेति हि व्याख्याने अङ्हलोरिति व्यर्थमेवे स्यात् । द्विविधा एव हि कूङितः प्रत्यया अङादयो हलादयश्च । व्यतिशासै इत्यत्र तु क्ङित्वमेव नास्ति । अटा सहेकादेशस्य स्थानिवद्भावेनाङादि-त्वाच्च । ऋदृशोङीत्यपि न प्रत्याहारः । ऋकारान्तेषु ऋच्छत्यतामिति गुणविधानाज्ज्ञापकात् । सनि च इङवेति न प्रत्याहारः । इको झलिति कित्त्वविधानात् । अज्झनगमां सनीति दीर्घविधानाच्च । इङन्तानां सनि गम्यादेशे हि सति उदात्तसूत्रद्वयं निविषयं स्यात् । परिमाणाख्यायां सर्वेभ्यः इङवेत्यपि न प्रत्याहारः । वैयर्थ्यप्रसङ्गात् । तथाहि । इकारान्तेभ्य एरचा भा व्यम् । उकारान्तेभ्य ऋदोरवित्यपा । लृकारान्तास्सन्त्येव न । एजन्तानामप्यनैमित्तिकेनात्वेम प्रत्ययोत्पत्तेः प्रागेव भाव्यम् ।