SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५७२ शब्दकौस्तुमः । [१ अ० उपोधिके च ।। अधिक होने च द्योये उपः प्राक्संज्ञः । उपखायों द्रोणः । खारीतोधिको द्रोणोस्ति । उभयमस्तीति फलितोर्थः । यस्मादधिकमिति सप्तमी । हीने, उपहरिं सुराः ॥ .... अपपरी वर्जने ॥ एतौ वर्जने घोत्ये प्राग्वत् । अपविष्णोः परिविष्णोः संसारः । पञ्चम्यपाङ्परिभिरिति पञ्चमी । परेवर्जनइति द्विवचनम् । तद्धि पञ्चासहितेन कर्मप्रवचनीयेन द्योतितेपि वर्जने भक्त्येव । उभयोरपि विधानसाम र्थ्यात् । वर्जने किम् । परिषिञ्चति । सर्वत इत्यर्थः । अत्रो पसंगत्वात्पत्वम् ॥ ___आङ् मर्यादावचने ॥ आङ् माग्वत् । मर्यादाशब्दो यस्मिन्सूत्रे उच्यते तत्रत्यश्चेत् । आङ्मर्यादाभिविध्योरित्यत्रोपातो व्यर्थ इत्यर्थः । आमुक्तेः संसारः । आबालेभ्यो हरिभक्तिः ॥ लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । कञ्चित्मकारं प्राप्त इत्थंभूतस्तदाख्याने यथा । साधुर्देवदत्तो मातरं प्रति पर्यन वा । भागे । यदन माम्प्रति स्यात् । परिस्यात् । अनुस्यात् । योत्र मम भागः स दीयतामित्यर्थः । स्वस्वामिभावो द्वितीयार्थः । वीप्सा व्याप्तुमिच्छा साकल्यप्रतिपिपादयिषति यावत् । भूतंभूतं प्रति पयेनु वा प्रभुः । सकलभूतानामित्यर्थः । न चेत्थंभूताख्यानइत्ये. व सिद्धम् । इदं तहुंदाहरणं वृक्षवृक्षं प्रतिसिञ्चति परिसिञ्चति अनुसिञ्चति । इह वीप्सा द्विवचनेनैव द्योत्यते । परिशब्दस्तु क्रिययैव सम्बध्यते । न चैवन्तस्य कर्मप्रवचनीयत्वं न स्यादिति वाच्यम् । वीप्सायाः विषयत्वानपायात् । अत एव वीप्सा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy