________________
४ पा. ४ आ.
शब्द कौस्तुभः ।
५७३
यां विषयभूतायामिति वृत्तिग्रन्थमवतारयन्हरदत्त आह । एते च लक्षणादयो यथा विभक्तिसमीपादयो ऽव्ययार्थाः । नैवं प्रत्यादीनामर्थाः । किन्तर्हि संज्ञायां प्रत्यादीनां विषयत्वेन निर्देश इत्याहेति । द्वितीया तु कर्मणि । कर्मप्रवचनीयसंज्ञा तूपसर्गत्वनिवृत्यर्था । तेनोपसर्गात्सुनोतीति पत्वं न । परिशब्दयोगे पञ्चमी तु न भवति । पञ्चम्यपाङित्यत्र वर्जना - र्थेनापेत्यनेन साहचर्यात् ||
1
अभिरभागे || भागवर्जेलक्षणादावभिरुक्तसंज्ञः स्यात् । वृक्षमभवद्योतते । साधुर्मातरमभि | वृक्षमभिसिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दीयताम् ||
प्रतिः प्रतिनिधिप्रतिदानयोः ॥ उक्तसंज्ञः स्यात् । अभि मन्युरर्जुनात् प्रति । तस्य प्रतिनिधिरित्यर्थः । तिलेभ्यः प्रतियच्छति माषान् । प्रतिनिधिप्रतिदाने च यस्मादिति पञ्चमी ||
अधिपरी अनर्थकौ ॥ उक्तसंज्ञौ स्तः । कुतो ऽध्यागच्छति । कुतः पर्यागच्छति । इहाधिकार्थविरहादनर्थकत्वमधिपर्योः, धात्वर्थमात्रानुवर्तित्वात्तु प्राप्ता गतिसंज्ञा । तद्वावः संज्ञाफलम् । तेन गतिर्गताविति निघातो न भवति ॥
सुः पूजायाम् ॥ सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न पः । पूजायां किम् । सुषिक्तं किन्तवात्र । क्षेपोयं न पूजा । कथं तर्हि सुष्टुतिरिति । अतिशयमात्रं विवक्षितं न तु पूजेत्याहुः । पठन्ति च । प्रशंसानुमते पूजा भृशकुछमुखेषु सुरिति ॥
अतिरतिक्रमणे च ॥ अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अतिक्रमणमुचितादधिकस्यानुष्ठानम् । अतिसिक्तं अतिस्तु बहुतरं समीचीनं वा सिक्तम् स्तुतञ्चेत्यर्थः ॥ अपिः पदार्थसम्भावनान्ववसर्गगहसमुच्चयेषु ॥ एषु द्योत्ये