________________
६७४
: शब्दकौस्तुमः । [१ अ. वपिरुक्तसंज्ञः । सार्पषोपि स्यात् । प्रार्थनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौलभ्यं द्योतयनपिशब्दः स्यादित्यनेन सम्बध्यते । अनुपसर्गत्वान्न पः। सर्पिष इति षष्ठी तु अपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । कर्मप्रवनीययुक्ते द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । सम्भावनं नाम शक्त्युत्कर्षमाविष्क मत्युक्तिः। अपिसिञ्चेन्मूलसहस्रम् । अपिस्तुयाद्विष्णुम् । अन्नवसर्गः का. मचारानुज्ञा । अपिसिश्च । अपिस्तुहि । गर्हायाम् । धिग्देवदत्तमापिस्तुयाद्वषलम् । समुच्चये । अपिसिञ्च । अपिस्तुहि । सिञ्च च स्तुहि चेत्यर्थः । यथायथमुपसर्गप्रादुर्ष्यामिति उपसर्गात्सु'नोतीति च प्राप्त पत्वं कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधितत्वान्न भवति ॥ .. अधिरीश्वरे ॥ स्वस्वामिभावे द्योत्ये ऽधिः कर्मप्रवचनीयः स्यात् । इह स्वात्स्वामिनो वा पर्यायेण कर्मप्रवचनीयविभक्तिः न तु हीने उपोधिकेचत्यत्रेवान्यतरस्मादेव । अधिभुवि रामः । अधिरामे भूः । एतच्च संज्ञासूत्रं नारम्भणीयम् । उत्तरार्थत्वे तु योगो न विभजनीय इति यस्मादधिकमित्यत्र वक्ष्यामः ॥ ___ विभाषा कृधि । अधिः करोतौ प्राक्संज्ञो वा स्यात् । ईश्व. रइत्यनुवर्तते । प्राप्तविभाषेयम् । यदत्र मामधिकरिष्यति । वि. नियोक्ष्यतइत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । कर्मत्वाद द्वितीया । इह तिङिचोदात्तवतीति निघातो न गतिसंज्ञाया बाधितत्वात् । किञ्च मामधिकृत्वेत्यत्र प्रादिसमासो न । कर्मप्रवचनीयानां प्रतिषेध इत्युक्तेः । पक्षे ऽधिकृत्येति बोध्यम् ॥ . _लः परस्मैपदम् ॥ लकारस्यादेशाः परस्पैपदसंज्ञाः स्युः ।