SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ४ पा. ४ आ. शब्दकौस्तुभः । मित्यादौ यथा । नापि षष्ठ्येव सम्बन्ध उच्यते । द्वितीययव तस्योक्तत्वात् । नापि प्रादेशं विपरिलिखति विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात् । किन्तु संहितासम्बन्धिवर्षणमिति द्वितीयावगतः सम्बन्धो लक्ष्यलक्षणभावरूप एवेत्यवगमात्सम्बन्ध एवानुना विशेषेवस्थाप्यते । क्व चित्तु क्रियागतविशेषद्योतकेपीयं संज्ञा वचनात्मवर्तते । सुः पूजायामतिरतिक्रमणे चेति यथा ॥ अनुलक्षणे ॥ लक्षणे द्योत्ये ऽनुः कर्मप्रवचनीयसंज्ञः स्यात् । लक्षणेत्थंभूतत्यादिना सिद्धे हेतौ तृतीयां बाधितुमिदं सूत्रम् । तथाहि । लक्षणे कर्मप्रवचनीयसंझाया अवकाशः । यो न हेतुः, वृक्षमनुविद्योतते विद्युदिति । हेतुत्तयिाया अवकाशो धनेन कुलमिति । संहितामनुप्रावर्षदित्यत्र तु हेतृभूतसंहितोपलक्षितं वपणमित्यर्थाद्धेतुभूने लक्षणे परत्वात्तृतीया स्यात् । पुनः संज्ञाविधानसामर्थ्यात्तु द्वितीयैव भवति । आह च । हेतुहेतुमतोर्योगपरिच्छेदेनुना कृते । आरम्भाद्राध्यते प्राप्ता तृतीया हेतुलक्षणेति । न च तृतीयार्थे इति सूत्रेण गतार्थता शक्या । तस्य पुरस्तादपवादन्यायेन सहयुक्तेऽप्रधानइत्येतन्मात्राधकत्वात् ॥ तृतीयार्थे । अस्मिन् द्योत्ये ऽनुरुक्तसंज्ञः स्यात् । नदी. मन्ववसिता सेना । नद्या सह सम्बद्धत्यर्थः । षिञ् बन्धने ऽस्माकर्तरि क्तः॥ हीने ॥ हीने द्योत्ये ऽनुः प्राग्वत् । अनु हरिं सुराः । हरिप्रतियोगिकापकर्षरूपसम्बन्धवन्त इत्यर्थः । उत्कृष्पादेव द्वितीया न त्वपकृष्टात् । शक्तिस्वभावात् ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy