________________
३५०
शब्दकौस्तुभः ।
[ १ अ०
णित्त्वे प्रयोजनाभावाच्च । न च तिष्ठति गौरित्यादौ पूर्वस्य वृद्धिः फलमिति वाच्यम् । गोशब्दं प्रति तिष्ठतेरनङ्गत्वात् । एवं प्रायेण पञ्चम्या अकृतार्थतति भाष्ये स्पष्टम् । आमिसनाम्नः सुडित्यत्रापि पञ्चम्यनवकाशा | आमीति सप्तमी तूत्तरार्थतया सावकाशा । यदि त्विह आदित्यनुवृत्तया पञ्चम्या सामानाधिकरण्यं सम्पाद्य सर्वनाम्न इति पञ्चम्यपि कृतार्थेति ब्रूयात्तर्हि यथोद्देशपक्षाश्रयणेन परत्वात्तस्मादित्युत्तरस्येति भविष्यति । तदुक्तम् । उभयनिर्देशे विप्रतिषेधात्पंचमीनिर्देश इति । वस्तुतस्तु नेह सामानाधिकरण्यम् । वर्णाश्रमेतराणा मित्यस्य सिद्धये सर्वनाम्नो विहितस्येति व्याख्यानात् । येषां तेषामित्याद्यर्थमकारात्परस्येति व्याख्यानाच्च । दीर्घा - च्छे तुग्भवतीत्यत्र तु षष्ठ्याः स्थाने पञ्चमी । तेन दीर्घ-, स्यैव तुग् भवति न तु छकारस्य, सुराच्छायेति निर्देश चेह लिङ्गम् । अन्यथा हि खरिचेति चर्चेन सुराच्चायेति चकारद्वयं निर्दिशेत् । प्रत्ययविधौ तु पञ्चम्यो न प्रकल्पिकाः । षष्ठया अनुवादविभक्तित्वात् । अप्रसिद्धस्य चानुवादासम्भवात् । तत्वानियमाप्रसङ्गेन नियमकारिण्याः परिभाषाया अप्रवृत्तश्चेति दिक् ॥
स्वं रूपं शब्दस्याशब्दसंज्ञा || शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना । अग्नेर्दक् । आग्नेयम् । आहो यमहनः । आयच्छते । आइते । इह अग्नि आङ् यम् छन् एषामेतत्सूत्रोपात्तानां प्रयोग समवायिनस्त एव संज्ञिनः । अशब्दसंज्ञेति किम् । उपसर्गे घोः किः । दाधाभ्यो यथा स्यात् । बुधातोः शब्दार्थान्मा भूत् । शब्दः, शब्दशास्त्रं तत्र । संइति सप्तमीसमासः । न तु शब्दस्य संज्ञेति । कर्म करण
7