SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुभः । ति चेन्न । सति शित्त्वे प्रत्याख्यानात् । तदेवं श्नमः शित्त्वकरणसामोत् डिन्तीति सत्सप्तम्यामपि परिभाषा नोपतिष्ठतइति स्थितम् । पूर्वपक्षत्वादनास्थया तथोक्तमिति वा वर्णनीयम् । इह मूत्रद्वये षष्ठीप्रक्लप्तिपक्षोपि भाष्ये स्थितः । तथाहि । षष्ठीस्थानेयोगेति सूत्राषष्ठीत्यनुवर्त्तते सप्तम्यर्थनिर्देशे पूर्वस्याव्यवहितस्य षष्ठी स्यात् । पञ्चम्यनिर्देशे उत्तरस्याव्यवहितस्य षष्ठी स्यादिति । तत्रेकोयणचीत्यादौ सूत्रएव षष्ठीश्रवणात्तां षष्ठीमनूय पूर्वस्यानन्तरस्यैषा न तूत्तरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतावन्मात्रमुच्यते । आनेमुगित्यादौ तु षष्ठया अश्रवणात्सापि प्रकल्प्यतइति विशेपः। सा चानियतयोगत्वात्स्थानषष्ठी यस्य च स्थानषष्ठी तस्यैव कार्यनियम इति सोप्यात्सिद्धयति । यत्र तूभयनिर्देशस्तत्रोभयं तावन्न प्रकल्पकं कार्यित्वनिमित्तत्वयोरेकत्र युगपद. सम्भवाज्ज्ञापकाच्च । तथा चैकः पूर्वपरयोरिति सूत्रे कैयटः । सूत्रद्वयप्रमाणत्वाद् द्वे भवेतां प्रकल्पिके । षष्ठया विभक्ती तेनात्र ज्ञापनार्थत्वमाश्रितामति । न च पर्यायेणोभयकल्पनम् । अ. तुल्यबलत्वात् । तथाहि । आनेमुगित्यत्र सप्तमीनिरवकाशा सा पूर्वत्र चरितार्थाया अतोयेय इति पञ्चम्याः षष्ठी कल्पयति । एवमीदास इति पञ्चमी आन इति सप्तम्याः , तथा तास्यनुदात्तेत्सूत्रे अभ्यस्तसिजर्थ सार्वधातुकइति सप्तमीनिर्देश वक्ष्यति सा च सप्तम्युत्तरत्र चरितार्थेति तस्या एव पष्ठी कल्प्यते । तथा बहोर्लोप इत्यत्र बहोरिति पञ्चमी अकृता. र्थाया इष्टेमेयःस्विति सप्तम्याः षष्ठी कल्पयति । अत एव भूचबहोरिति पृथक् षष्ठीनिर्देशः । तथा गोतोणिदिति पञ्चमी सर्वनामस्थानइति सप्तम्याः षष्ठी कल्पयति । गोशन्दस्य
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy