SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुभः । ३५१ मित्यादिष्वर्थसंज्ञास स्वरूपग्रहणापत्तेः । स्यादेतत् । रूपनहणं विनापि स्वशब्देन तदेव ग्रहीष्यते । प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वानियतोपस्थितिकत्वाच्च । अर्थो हि प्रतीतो सम्बन्धग्रहणमपेक्षते साधारणश्च । पर्यायैरपि प्रत्यायनात् । बहिरङ्गश्च पदज्ञानजन्यबोधविषयत्वात् । अनियतोपस्थितिकश्चानुकरणदशायामप्रतीतेः । तत्किं रूपग्रहणेनेति चेत् । अत्राहुः । इह शास्त्रे अर्थोपि विवक्षितो रूपवदि. ति ज्ञापनार्थ रूपग्रहणम् । तेनार्थवद्ग्रहणे नानर्थकस्येत्युपपन्न भवति । तत्रोक्तज्ञापकादर्थो ग्राह्यः स्वरूपमिति वचनाद्रूपंचेति सामादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र शेइति प्रगृह्य संज्ञा न भवति । एतत्सूत्रं भाष्ये प्रत्याख्यातम् । तथाहि । आरभ्यमाणेपि सूत्रे पशुरपत्यं देवता प्राञ्च उदञ्चो भरता इत्यादयस्तावल्लोकवदर्था एवं गृह्यन्ते । अ. ग्नेगित्यादौ तु शब्द एव ग्रहीष्यते । अर्थस्य प्रत्ययेन पौर्वापर्यासम्भवात् । छ्याप्प्रातिपदिकादित्यधिकाराच्च । उपसर्गे घोः किरित्यादौ तु घुधातुर्न ग्रहीष्यते । दाधावित्यारम्भात् । उक्तं हि । व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्व चिदिति। अर्थवद्रहणपरिभाषापि ब्रश्वादिसूत्रे राजिं पठिखा पुनर्कीजिपाठात्सिद्धा न्यायासिद्धा च । अग्नेगित्यादौ हि शब्दविशिष्टस्यार्थस्योत्सर्गत उपस्थितौ विशेष्ये कार्यवाधाद्विशेषणीभूते शब्द पवर्तमान कार्यमुपस्थितार्थोपहितएव न त्वनर्थकेपि । अर्थस्य विशेषणविशेष्यभाषव्यत्यासमात्रेणोपपत्तौ सर्वात्मना त्यागायोगात् । गौणमुख्यन्यायोप्येतन्मूलः गौणस्य प्रथमतो ऽनुपस्थितेः । एतेनाभिव्यक्तपदार्था यइत्यपि व्याख्यातम् । तस्मान्न्यायत एव सकलनिर्वाहे सूत्रं नारम्भणीयमिति । ननू
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy