________________
१ पा. ५ आ.
शब्दकौस्तुमः ।
१९७
भ्य औशिति सूत्रे प्रियाष्टान इत्यत्रेति वृत्तिग्रन्थमुपादाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यतइति प्रतिज्ञायाष्टन आ विभक्ताविति सूत्रे एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेप्यष्टनि भवति तत्रापि विकल्पितत्वात् । प्रियाष्टा प्रियाष्टानौ प्रियाष्टानइत्यपि भवति । तत्राप्यात्वपक्षे भसंज्ञाविषये आतो लोपमिच्छंति प्रियाष्टः पश्येत्याद्यात्वाभावपक्षेप्यल्लोपे ष्टुत्वं मियाष्ट इति भवतीत्यंतेन ग्र न्थेन पूर्वप्रतिज्ञातार्थविपरीतं भाष्यवृत्त्यादिविरुद्धं च कथमभिहितवानिति तस्याशयं स एव प्रष्टव्यः । अल्लोपे ठुत्वमित्यपि तदुक्तिश्चिन्त्यैव । पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावेन ष्टुत्वायोगात् । न च पूर्वत्रासिद्धीये न स्थानवदिति निषेधः । तस्य दोषः संयोगादिलोपलवणत्वेष्विति सापवादत्वात् । ननु रषाभ्यां नो ण इति प्रतिपदोक्तं णत्वं तत्र गृह्यते न तु ष्टुत्वविधिलभ्यमपि विलंबितप्रतीतिकत्वादिति चेन्न । अपदान्तस्य मूर्धन्य इति सूत्रं संपूर्ण रषाभ्यामिति सूत्रे ऽनु. वर्त्य तत्रत्यस्य गग्रहणस्य पदांतस्येतिनिषेधसूत्रस्य च भाष्ये प्रत्याख्यातत्वात् । यथोत्तरं मुनीनां प्रामाण्यात् । न च मूर्द्धन्यशब्देन ष्टुशब्देन वा निर्वय॑माने णकारे वैषम्यमस्ति सत्रकाररीत्या कथंचित्संभवन्नपि न्यायोत्र भाष्यानुरोधात्त्याज्य एव । तथा च शपूर्वाः खय इति सूत्रे खपूर्वग्रहणं कर्त्तव्यमिति वातिकं प्रत्याचक्षाणो भगवानाह । अभ्यासजश्त्वचर्व सिद्धमित्येव एत्वतुग्ग्रहणं न कर्त्तव्यमिति । तथा च हलादिः शेषे कर्त्तव्ये तुकश्चुत्वेन निष्पन्नस्य चकारस्यापि चर्वेन सिद्धतयोचिच्छिषतीति रूपं सिद्धमिति तदाशयः कैयटेन वर्णितः। तदेकं प्रियाष्ट्न इत्यायेव रूपमुचितम् । न चैवं पूष्ण