________________
१९८
. शब्दकौस्तुभः । [१ अ. इत्यादावपि नकार एव पठयेतेति वाच्यम् । तत्राट् कुप्वाङिति सूत्रेण णत्वप्रवृत्तेरिति दिक् ॥
डति च ॥ डत्यन्ता संख्या षद्संज्ञा स्यात् । कति सन्ति, कत्यद्राक्षीः । षट्वाज्जश्शसोर्लक् । संख्येतिकिम् । पातेर्डतिः पतयः। न चास्य संख्यासंज्ञापि स्यादिति वाच्यम् । वतुसाहचर्येण तत्र तद्धितस्यैव ग्रहणात् । इदं सूत्रं प्रत्याख्यातं भाष्ये । बहुगणवनुसंख्या । इति । संख्येत्यनुवर्तते। ततः ष्णान्ता षट् संख्या डतीत्युभयमप्यनुवर्तते । पूर्वसूत्रेप्यन्वर्थसंज्ञाविज्ञानात् । संख्याप्रश्नविषयस्यैव डग्रहणं न त्वौणादिकस्येति ॥ - तक्तवतू निष्ठा ॥ एतौ निष्ठासंज्ञौ स्तः । कृतः । कृतवान् । ननु विहितयोः प्रत्यययोरनेन संज्ञा । संज्ञया च विधानम् । वक्ष्यति हि तृतीये, निष्ठति । तथा चान्योन्याश्रय इति चेन्न । सूत्रशाटकवद्भाविसंज्ञाविज्ञानात् । तो भूते काले भवतो ययोविहितयोनिष्ठेत्येषा संज्ञा भविष्यतीति । स्यादेतत् । अनुबन्धाः कार्यार्थमुपादीयन्ते न तु श्रवणार्थ,तेषां लोपविधानात् । तथा च लुप्तानुबन्धस्य परिनिष्ठितस्य यत्र सारूप्यं तत्रक्वानुबन्धकार्य भवतु क्व वा नेति तु निश्चेतुमशक्यम् । न च काकादिवदुपलक्षणस्यापि व्यावर्तकता भविष्यतीति वाच्यम् । काकादिनापि हि वेदिका. पुण्डरीकादिकं स्थिरं किञ्चित्परिचाय्यते तद्वलाच्चोड्डीनेपिकाके व्यवहारो न सङ्कीर्यते । न चेह परिचेयान्तरमुपलभ्यते क्तप्रत्ययतन्प्रत्यययोः काकादिकल्पौ हि ककारनकारौ तदपगमे संवृत्ते तइत्यत्र परिचेयस्य परस्परव्यावृत्तस्य दुर्वचत्वादिति । अत्राहुः । कालकारकविशेषादयो अर्था एवात्र वेदिकापुण्डरीकादिस्थानापन्नास्तदर्शनाचानुबन्धस्मृतौ सत्यां तत्तत्प्रयुक्तं कार्य साधतया ज्ञायते । तथा लूनः शालिरिति केन चित्मयुक्त