________________
१ पा. ६ आ. शब्दकौस्तुमः ।
१९९ लक्षणजेन कर्मभूतकालबलाक्तमत्ययो ऽयमिति निर्णीयते । लोतमालभेतेति प्रयुक्ते तु मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति निर्णीयते । हसिमृग्रिणवामिदमिलूपूर्विभ्यस्तनित्युणादिसूत्रात् । लोतः स्यादश्वमेषयोरिति तु पञ्चपादीवृत्तौ स्थितम् । तथा प्राभित्तघटं देवदत्त इति प्रयोगे कāकत्वाद्यवगमा. ल्लुङन्तस्यायं प्रयोगो न तु निष्ठान्तस्येति निर्णीयते । स्यादेतत् । अजिघृसिभ्यः क्त इति क्तमत्यये अक्तं घृतं सितामति व्युत्पादितम् । तत्रापि निष्ठा संज्ञा स्यात् । ततश्च निष्ठा च व्यजनादिति स्वरः स्यात् । निष्ठान्तं व्यकं संज्ञायामायुदातं स्यात्स चेदादिराकारो नेति सूत्रार्थः । न चेष्टापत्तिः । घृतं मिमिक्षइत्यादावन्तोदात्तस्यैव पठ्यमानत्वादिति । अत्राहुः । अतः कृकमीतिसूत्रे कमिग्रहणेनैव सिद्ध कंसग्रहणेन ज्ञापितमुणादयः क्व चिवुयत्पत्तिकार्य न लभन्तइति । अतो नात्र निष्ठा संज्ञेति । यद्वा घृतादीनां चेति फिदसूत्रेण सिद्धम् ॥ ___ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य
प्रथमे पादे पञ्चमान्हिकम् ॥ सर्वादीनि सर्वनामानि ॥ एतानि सर्वनामसंज्ञानि स्युः । तद्गुणसंविज्ञानोयं बहुव्रीहिः । तस्यान्यदार्थस्य गुणानां वर्तिपदार्थरूपाणां विशेषणानां कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञानः । तत्र सर्व आदिर्येषां तानीति विग्रहः । तच्छब्दप्रयोगेणान्यपदार्थप्राधान्यं लभ्यते । एवं चित्रा गावो यस्य स इत्यादावपि । अन्यथा हि यस्य गावश्चित्रा इति गोशब्दार्थप्राधान्यं स्यात् । न चैवंविधेर्थे बहुव्रीहिरिष्यते । यत्तु वृत्तिवाक्ययोर्विशेष्यैक्यसम्पत्तये चित्राणां गवामयमित्यादि विग्रहवणनं मीमांसावाचिके कृतम् । तत्तु न मुनिवचसामनुकलम् ।