________________
२००
शब्दकौस्तुभः । [१ अ० अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति वार्तिककृता वक्ष्यमाणत्वात् । भाष्यकृता च शेषो बहुव्रीहिरिति सूत्रे त्रिकतः शेषमाश्रित्य सू. त्राक्षरैरेवोक्तस्यार्थस्य साधितत्त्वात् । द्वितीया श्रितातीतादिभिस्तृतीया तत्कृतार्थेनेत्यादि क्रमेण हि षण्णां त्रिकाणां समास उक्तस्तदपेक्षया शेषः प्रथमारूपः त्रिकस्तस्यैव बहुव्रीहिसंज्ञेति वृष्टे देवे गत इत्यादेरिव चित्राणां गवामित्यस्यापि दुरापास्तंबहुव्रीहित्वम् । किञ्च मत्वर्थे बहुव्रीहिरिति कात्यायनवचनात्कथं चित्राणां गवामित्यत्र तत्प्रसक्तिः। ननु दण्डीत्यादावपि दण्डस्यायमिति विग्रहाभ्युपगमादस्मद्रीत्यायमेव मत्वर्थ इति चेत्तर्हि सुतरां मुनिवचनविरोधः । तदस्यास्त्यस्मिन्निति सूत्रेण प्रथमान्तादस्त्युपाधिकात्सबन्धिनि मतुम्विधानात् । समर्थानां प्रथमाइति सूत्रेण प्रथमनिर्दिष्टस्यैव प्रकृतित्वावधारणाच्च । नन्वेतान्यपि सूत्रवार्तिकभाष्यवचांसि कथं चिद्भक्त्वा नेष्याम इति चेत् । समर्थः पदविधिरित्यादीनि वीहिभिर्यजेतेत्यादिषु पदविधिभिन्नेष्वपि योजयित्वा सामर्थ्य च भाष्यादिसम्मताविपरीतमेव वर्णयन् भवादृशो निरंकुशः किंकिं न कुर्यात् । किन्तु व्याकरणाधिकरणे सिद्धान्तितं व्याकरणप्रामाण्यं कथं स्वेच्छया व्याकुलयसीति परम्पर्य्यनुयोगे समाधानं विभावय । तस्याचित्रा गावो यस्येत्येव विग्रहः सकलशिष्टसम्प्रदायसिद्धो मुनित्रयवचसामनुकूलश्चेति दिक् । आदिशब्दस्यावयववाचित्वादुद्भूतावयवभेदः समुदायः समासार्थस्तस्य च समुदायस्य युगपल्लक्ष्ये प्रयोगाभावादानर्थक्यात्तदङ्गेष्विति न्यायेन तदवयवेषु प्रवर्त्तमाना संज्ञा ऽविशेषात्सर्वशब्देपि प्रवर्त्ततइति युक्तं तद्गुणसंविज्ञानत्वम् । हलि सर्वेषामित्यादि निर्देशाश्वेह लिङ्गम् । जक्षित्यादयः षडिति सूत्रे तु जक्षिति योगं विभज्य जक्षेः संज्ञाविधानसा