SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४ पा. २ आ. शब्दकौस्तुभः । यमस्तथा पतिगृहे इत्यत्र मा भूत् । इह हि घित्वात्पूर्वनिपात एव । बहुपूर्वस्य तु सुसखिन्यायेन घित्वाहहुपतिनेत्यादि बोध्यम् । अथ कथं सखिना वानरेन्द्रेण, पतिना नीयमानायाः पुरः शुक्रो न दुष्यति, न मृते प्रव्रजिते कीबे च पतिते पतावित्यादि । अत्र हरदत्तः, छन्दोवदृषयः कुर्वन्तीति । अस्याय. माशयः। असाधव एवैते त्रिशङ्काद्ययाज्ययाजनादिवत्तपोमाहात्म्यशालिनां मुनीनामसाधुप्रयोगोपि नातीव बाधते अस्मदादीप्रति तु स्मृतिपुराणाद्यध्ययनविधिवलादेव तदन्तर्गततत्पाठो न बाधकः । तथा च स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादयः प्र. त्यवयन्त्येवोति नदीसंज्ञामूत्रे भाष्यकैयटयोरपि स्थितमिदम् । यद्वा सखेत्याख्यातः सखिः पतिरित्याख्यातः पतिः तेन सखिना पतिना आख्यातण्यन्ताकर्मणि अच इरित्यौणादिक इ. प्रत्ययः । लाक्षणिकत्वाच्चैतयोर्घिसंज्ञापर्युदासे ग्रहणं नास्तीति दिक् । एतेनार्जुनस्य सखा कृष्णः कृष्णस्य सखिरर्जुन इत्यपि व्याख्यातम् । कथं वचो वाचस्पतेरपीति माघः । न ह्ययं समासः । अलुग्विधायकादर्शनादिति, सत्यम् । तत्पुरुषेकृतीति बहुलग्रहणादलुक् । एतेन दिवस्पतिवास्तोष्पती व्याख्यातौ । षष्ठयाः पतीत्यादिना सत्वम् । ये तु तत्र छन्दसीत्यनुवर्तयन्ति श्रियापतिरित्यादिसिद्धये, तन्मते पारस्करादित्वात्सुट् । के चितु द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छचेति सामान्यापेक्षज्ञापकात् षष्ठया अलुक् । कस्कादित्वात्सत्वम् । इणः परस्य तु षत्वमित्याहुः । पदकारास्तु वाचस्पतिं विश्वकर्माणम्, वास्तोष्पते प्रतीत्यादौ पृथक् पदमधीयते ।। षष्ठीयुक्तश्छन्दसि वा. ॥ षष्ठयन्तेन युक्तः पतिशब्दश्छ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy