________________
५१४
शब्द कौस्तुभः ।
[ १ अ०
यत्तु ग्रहणवतेत्यादि हरदत्तेनोपन्यस्तं ख्यत्यात्सूत्रे च कैयटेन । तत्पूर्वापरविरुद्धमिति येनविधिारीत सूत्रे व्युत्पादितम् । न चैवं यस्येतिचेति सूत्रे इवर्णस्य इति सखीत्युदाहरणं न युज्यते । सखिशब्दात्सख्यशिश्वीतिभाषायामिति ङीषि सति लोपे सवर्णदीर्घे वा विशेषाभावात् । यन्तु तत्र भाष्ये वृत्तौ चोक्तम्, असति लोपे ऽतिसखेरागच्छतीत्यत्र सवर्णदीर्घस्य पूर्व प्रत्यन्तवद्भावादसखीति घिसंज्ञाप्रतिषेधः स्यादिति, तदसखीति प्रस ज्यप्रतिषेधमाश्रित्येति कैयटादौ स्पष्टम् । अत एवापाततः पर्युदासस्यैवेह स्थितत्वात् । अन्यथा वाक्यभेदाद समर्थ समासात् सुसखेरित्याद्यसिद्धयापत्तेश्च । तस्मादीति लोपे फलं दुर्लभमिति चेत्, अत्रोच्यते । सखी सख्यौ सख्य इत्यादावनणित्वे मा भूतामिति इलोप एषितव्यः । न च सिद्धान्तेपि प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणाद्दोषतादवस्थ्यम् । विभक्तौ लिङ्गविशिष्टाग्रहणात् । एतेन इकारलोपस्य तद्धितएवोदाहरणं न त्वीति परत इति वदन् हरदत्तोपास्तः ॥
पतिः समासएव । पतिशब्दः समासएव घिसंज्ञः स्यात् । भूपतये । नेद, पत्या पत्ये । विपरीतनियमं वारयितुमेवकारः. हढमुष्टिना । स्यादेतत् । शेषोघ्यसखिपती इत्येवास्तु समस्तस्य तु पूर्वोक्तरीत्या सिद्धम् । न चोत्तरसूत्रे सख्युरपि सम्बन्धापत्तिः । बाधकाभावात् । इष्टरूपस्य तावतापि सिद्धेः । द्वितीयस्य तु साधोरपि छन्दस्यपठितस्यानापाद्यत्वात् । न चैवमुत्तरसूत्रे षष्ठीयुक्तग्रहो व्यर्थः स्यादिति वाच्यम् । इष्टापत्तेः । एवमेव हि श्रीग्रामण्यो च्छन्दसीति श्रीग्रहणं नित्यं मन्त्रइत्यादीनि च प्रत्याख्यातानि । सम्बुद्धौ शाकल्यस्येत्यत्रानार्थग्रहणमध्ये - वम् । सत्यम् । यथा सखिगृहे गृहसखायावित्यत्र पूर्वनिपातानि -
1