SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । १६१ बुद्धिः परं तस्य नास्तीत्यन्यदेतत् । यत्तु षष्ठे भाष्यकारो वक्ष्यति, सिद्धः प्लुतः स्वरसन्धिष्विति तत्त्विहानुनासिकपर्युदासानुरोधाद्यथादेशपक्ष एवाश्रयणीय इति स्थिते स्वरसन्धिसामान्यापेक्षज्ञापकाश्रयणेपि न दोष इत्याशयेन, न तु सामान्यापेक्षतायामेव किञ्चिदाग्रहे बीजमस्तीति दिक् । ननूदाहरणेष्वीदादिकमेव द्विवचनं न तु तदन्तमिति चेन्न । व्यपदशिवद्भावेन तदन्तत्वात् । नन्वीदूदन्तं द्विवचनान्तमित्येव कथं न व्याख्यातम् । एवं हि सति व्यपदेशिवद्भावो नाश्रयणीय इति चेन । कुमार्योरगारं कुमार्यगारं वध्वोरगारं वध्वगारमित्यत्र प्रत्ययलक्षणेन द्विवचनान्तोतव्याप्तेः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति सुतिङन्तं पदमित्यत्रान्तग्रहणेन ज्ञापितत्वाच्च । एतेनेदाधन्तं यद् द्विवचनं तदन्तम्प्रगृह्यं,कुमार्यगारादौ तु सकारान्तं द्विवचनं नत्वीदाबन्तमिति परास्तम् । संज्ञाविधौ प्रत्यय ग्रहणे तदन्ताग्रहणात् । यत्त्वस्मिन्पक्षे दूषणान्तरमुक्तम् । अशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रेइत्यत्र शब्दान्तरमाप्त्या ऽनित्यं लुकं बाधित्वा परत्वाच्छीभावे कृते तस्य लुकि प्रत्यय. लक्षणेन शुक्लीत्यस्य प्रगृह्यता स्यादिति । तन्न । अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधतइति परिभाषयौकारस्यैव लोपात् । तस्य चेदाधन्तत्वविरहात् । अस्तु तर्हि ईदादिविशेष्यं, तथा च द्विवचनसंज्ञं ईदादि प्रगृह्यमित्यर्थ इति चेन्न । गङ्गे इत्यादेः सिद्धावपि दृश्यते इत्याद्यसिद्धः। द्विवचनावयवो ह्ययमेकारो न तु द्विवचनम् । किञ्च प्रगृह्यमित्यस्य सन्निहितत्वाद् द्विवचनमेव संज्ञि न त्वीदादिः, विप्रकृष्टत्वात् । तस्माद्यथाव्याख्यानमेव मनोरमम् । अत्र वृत्तिकाराः । मणीवादीनां प्रतिषेधो वक्तव्य इति पठित्वा मणीव रोदसीव दम्पतीव जम्पतीवेत्युदाजन्हुः । मुनित्र २१
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy