SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८३ १ पा. ८ आ. शब्दकौस्तुमः। आड्रीनयोः, शीडोरुट्, अचः परस्मिन् , येनविधिः, उपेंयिवाननाश्वान्, आडजादीनाम्,अजादेद्वितीयस्य, अदसऔसुलोपश्च,सार्वधातुकमपित्,उपसर्गाद-हस्वऊहतेः,स्नुक्रमोरनात्मनेपदइत्यादिसूत्रेषु कैयटहरदत्तादिसकलग्रन्थाः समानाश्रयतां कचिदादृत्य कचिदनादृत्य प्रवृत्ताविति स्पष्टमेव सिद्धान्तपरिशालिनाम्। षाष्ठभाष्ये प्रथमाह्निकान्ते वार्णादाङ्गमिति परिभाषायाःप्रयोजनान्यपि व्याश्रयसाधारणान्येव । नमाङयोग इतिसूत्रस्थकैयटग्रन्थे प्यवमेव । आतोनुपसर्गेक इति सूत्रे भाष्येप्येवमेव । तस्माद्बहिरङ्गपरिभाषाऽकृतव्यूहपरिभाषयोरिव वार्णादाङ्गमित्यस्या अप्यनित्यत्वमेव शरणम् । तच्च सतुक्कग्रहणेन ज्ञाप्यते । न च परस्मिपूर्वविधावपि स्थानिवद्भावेन तुकं वारयितुं सः । अन्यार्थतया ऽवश्यकत्र्तव्येनाच इत्यनेन गतार्थत्वात् । एवञ्चान्यार्थ क्रियमाणं सतुकग्रहणमकृतव्यूह इत्यस्याप्यनित्यतां कामं ज्ञापयतु । प्रकृतसूत्रे विश्न इति प्रत्युदाहरणन्तु यथाश्रुतरीत्या । एवं स्थिते नङो ङित्वस्य गुणनिषेधे चरितार्थत्वादकृतव्यूहपरिभाषायां ज्ञापकान्तरमास्थेयम् । तच्च प्रत्ययवचनमुत्तरपदग्रहणं समर्थग्रहणं वा । तेभ्यो लघुत्वात् ल्यग्रहणमेवेति तु निष्कर्षः। आचारकिबन्तार्थ प्रत्ययग्रहणं तवममादिवाधनार्थमप्राप्तविध्यर्थश्वोत्तरपदग्रहणमिति हि स्थास्यति । मपर्यन्तानुत्तिरेव ज्ञापिकेति हरदत्तोत्पेक्षा त्वन्तरङ्गस्यापवादबाध्यत्वादयुक्तति सप्तमे व. क्ष्यते । एवञ्च पामाधन्तर्गणसूत्रे विष्वगित्युत्तरपदलोपश्चाकतसन्धेरित्यत्राकृतसन्धिग्रहणमप्यनावश्यकम् । वीक्षमाणादिभ्यः . कृतसन्धिभ्य एव तद्धिता इति स्पष्टीकरणाथै वास्तु । एवं त्रियाः पुंवदिति सूत्रे नत्येषा परिभाषा सर्वत्राश्रीयतइति कैयटः समीचीन एव । आभात्सूत्रस्थकयटस्तु निमित्तापायइति परिभा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy