________________
२४
शब्दकौस्तुभः ।
[१ अ० गुद्यत इति श्रुतिरप्येवम् । भाष्ये तु अभ्युपेत्यवादेन साधुज्ञानात्फलमित्ययमपि पक्षः समार्थतः । नचैवमपशब्दज्ञानादधमोपि स्यादिति वाच्यम् । यावद्वचनं वाचनिकमित्यभ्युपगमात् । नम्लेच्छितवाइत्यादिना असाधुप्रयोगस्यैव निषेधाच्च । न च व्याकरणाध्ययने प्रवृत्तस्य परिनिष्ठितपचत्यादिबोधार्थे दुपचष्पभृतीनां प्रयोगोप्यावश्यक एवेति वाच्यम् । तदीयज्ञानमात्रेण निर्वाहात् । अत एवालौकिकम्पक्रियावाक्यमूहमात्रस्य गोचर इति नित्यसमासेष्वस्वपदविग्रहाभ्युपगमः । अथ व्युत्पादनार्थ तत्पयोग आवश्यक इत्याग्रहस्तथापि न क्षतिः । अनपभूष्टत्वेन तेषां प्रत्यवायाजनकत्वात् । न ते शक्तिवैकल्यादिप्रयुक्ताः येन गाव्यादिसाम्यं भजेरन् । अथ सादित्वादसाधुतेत्याग्रहस्तथापि न क्षतिः । शब्दस्वरूपपरत्वात् । अनुकरणानां सर्वत्र साधुताभ्युपगमात् । नहि हेलयो हेलय इति श्रुतिपाठोप प्रत्यवायजनकः । शब्दस्वरूपपात्रपरा एते भिन्ना एव साधवश्चेति तु तु. ल्यम् । अत एव स्वाहेन्द्रशत्रुर्वर्द्धस्वेतिश्रुतावाद्युदात्तस्य पाठोप तत्प्रत्याय्यस्यार्थपरस्य हितस्यानाम्नानादमन्त्रतया जपादिपर्युदासेन मन्त्रे विधीयमाना एकश्रुतिर्न प्रसक्तोति प्रागुक्तम् । अत एव साधुत्वासाधुत्वयोरेकस्मिन् सद्भावो अभावश्चेति विरुद्धस्य दुरुपपादतया अर्थभेदाच्छब्दभेदइति दर्शनं प्रवृत्तम् । न च प्रकृनिवदनुकरणमित्यतिदेशेन अपशब्दानुकरणस्य असाधुता शङ्कया । असाधूनां शास्त्रीयप्रकृतित्त्वाभावात् । असाधुत्वस्य शास्त्रीयकार्यत्वाभावाच । नत्यशास्त्रीयमप्यतिदिश्यतइति ऋलक्सूत्रे भाष्ये स्फुटमेतत् । डुपचष्प्रभृतिप्रयोगादपशब्दज्ञानाद्वा प्रत्यवायो नास्तीति प्रागुक्तरीत्या स्थितेपि अभ्युपेत्यापि प्रत्यवायं भाष्ये कूपखानकन्याय उदात्दृतः । तथाहि । कू