SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १ पा. १ आ. शब्दकौस्तुभः । . दिति चेत् । त्वत्पक्षेपीश्वरेच्छाया गौणादावतिप्रसङ्गस्य तुल्यत्वात् । मुहद्भावेन पृच्छामीतिचेत् । प्रचुरतरप्रयोगतद्विरहाभ्यां गौः णमुख्यविभाग इति गृहाण । ननु जनकत्वेनागृहीतादपि तर्हि कारणात्कार्योदयः स्यादेवेति चेत् । पदार्थस्मृतिरापाद्यते वा. क्यार्थबोधो वा । नायः । सम्बन्धग्रहं विना तदयोगात् । ना. न्त्यः । द्वाराभावात् । पदार्थस्मरणं हि द्वारम् । एवं च महदेव लाघवम् । साधुस्मारणकल्पनाक्लेशश्च न भवतीति । साधुत्वं तु जातिविशेषात्मकामित्युक्तमेव । समानायामविगतौ शब्दैश्वापशब्दैश्चेतिभाष्यमप्येतत्पक्षपातीति दिक् ॥ इति अपशब्दानां वाचकत्वावाचकत्वविचारः। प्रयोगशब्दमुपाददानो वार्तिककारःप्रयोगाद्धर्मो न तु ज्ञानमात्रादिति सूचयति । युक्तं चैतत् । एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्त इत्यत्र ज्ञानप्रयोगयोरुपादानस्याविशेषेपि प्रतिपदाधिकर णन्यायेन यदैकस्मादपूर्व तदेतरत्तदर्थमितिप्रयोगात्फलं ज्ञानं तु तदङ्गमित्यभ्युपगमात् । प्रयोगस्य फलम्पति सन्निहितत्वाच । ज्ञानस्य तु व्यवहितत्वात् । ज्ञानस्य प्रयोगाङ्गतायां दृष्टार्थतालाभाच्च । उक्तं च भट्टैः । सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चात्मविज्ञानादन्यत्रत्यवधार्यतामिति । अत एव तरति ब्रह्महत्यां योश्वमेधेन यजते य उ चैनमेवं वेदेत्यादिष्वपि ज्ञानपूर्वकानुष्ठानात्फलमित्येव सिद्धान्तः । तदुक्तं वार्तिककृता । तत्तुल्यं वेदशब्देनेति । वेदः शब्दो विधायको यस्यार्थस्य अश्वमेधादेस्तेनेदं तुल्यमित्यर्थः । तेन वैदिकशब्दानामपि पक्षकोटिम विष्टतया दृष्टान्तासङ्गतिरिति नाशङ्कनीयम् । ते सुरा इति पूर्वोदाहृतश्रुतिरपि अपशब्दप्रयोगात्मत्यवायं बोधयन्ती साधुप्रयोगाद्धर्म गमयनि । वाजसनेयिनां ब्राह्मणे-तस्मादेषाव्याकृता वा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy