SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १ पा. २ आ. शब्दकौस्तुभः । पत्तेः । अच्त्वासिद्धया समासुटीत्यत्रत्यकैयटादिग्रन्थावरोधापत्तेश्चेति दिक् । अविशेषेणेत्यादि वार्तिकस्यायमर्थः । यत्र यत्र प्रदेशे प्रयोजनं दृश्यते तत्र तत्रोपदेशः कर्तव्यः प्रयोजनानि तु संयोगसंज्ञादीनि पञ्चेति । तथाहि । वातिकमते उब्जेरुपध्मानीयोपधतया उपध्मानीयस्य हल्संज्ञा विना संयोगसंज्ञा न सिद्धयति जश्त्वं त्वसिद्धं ततश्च संयोगे गुर्विति गुरुसंज्ञाया अपि विरहादुब्जक इत्यत्र गुरोरनृत इति प्लुतो न स्यात् । तस्मात्प्लुतगुरुसंज्ञासंयोगसंज्ञाहल्संज्ञानामुसरोत्तरसापेक्षतया प्लुतसिद्धयर्थ हल्संज्ञा एषितव्या । तदेतदभिप्रेत्यो. तं संयोगसंज्ञा प्रयोजनमिति । तथोपधासंज्ञापि प्रयोजनम् । निकृतं दुष्कृतमिदुदुपधस्य चेति षत्वं यथा स्यात् । भाष्यकारस्त्वाह । इदुदुपधस्थानिको यो विसर्ग इति व्याख्यानाम्मेदं प्र. योजनम् । उपधाग्रहणप्रत्याख्यानाद्वा । इदुद्भया परस्य विसस्थेत्येवेष्टसिद्धिरिति । अलोन्त्यविधिश्च प्रयोजनम् । वृक्षस्तरति विसर्जनीयान्तस्य पदस्य स इति पक्षे अन्त्यस्य सत्वं यथा स्यात् । पदस्य यो विसर्जनीय इति व्याख्यानानिर्दिश्यमानस्येति परिभाषया वा सिद्धत्वादिदमपि न प्रयोजनम् । द्विवचनं च प्रयोजनम् । उरः कः उरः पः,अनचि चेत्यच उत्तरस्य यरो विधीयमानं द्वित्वं सिद्धं भवति । तथा स्थानिवद्भावप्रतिषेधोपि प्रयोजनम् । यथा उर केणत्यादौ अव्यवायेति णत्वं सिद्धं भवति । एवं व्यूढोरस्केनेत्यादावपि प्राप्नोति स्थानिवद्भावासकारस्य तत्रानल्विधाविति प्रतिषेधो ऽल्त्वे सति सिध्यति । न च पूर्वत्रासिद्धे न स्थानिवदिति निषेधोस्त्विति वाच्यम् । न पदान्तसूत्रशेषभूतस्य तस्याचः परस्मिन्नित्येतद्विषयकत्वात् । स्थानिवद्भाव प्रति त्रिपादीस्थस्यासिद्धतया न्यायसिद्धं तदिति
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy