________________
२४ पा. २ आ.
शब्दकौस्तुभः ।
५२१
व इति पदसंज्ञाया उपसङ्ख्यानम् । तसौमत्वर्थे इति भसंज्ञाया अपवादः व्यत्ययेन भवतेः शपो लुक् ॥
यचि भम् ॥ यकारादिष्वजादिषु च स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् । गार्ग्यः । राज्ञः । वाचिकषडियोस्तु यथा भत्वाभत्वे निर्वहतस्तथा पञ्चमे वक्ष्यते । नभोङ्गिरोमनुषां वत्युपसंङ्ख्यानम् । नभसा तुल्यं वर्तते इति नभस्वत् भत्वाद्रत्वाभावः । मनुष्वदग्ने । अङ्गिरस्वदङ्गिरः । जनेरुसीत्यत्र बहुलग्रहणानुवृत्तेर्मन्यतेरुपिप्रत्ययः आदेशप्रत्यययोरिति षत्वम् । वृषण्वस्वश्वयोः वृष वर्षुकं वसु यस्य सः वृषण्वसुः । एवं वृषणधः । कर्मधारये षष्ठीतपुरुषादिर्वा यथासम्भवं बोध्यः । इहान्तवर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्रसज्येत भत्वान्तु न पदत्वम् । अत एव पदान्तस्येति णत्वनिषेधो न । अल्लोपोन इति तु न भवति अङ्गसंज्ञाया अभावात् अङ्गस्येति तत्राधिकारात् । उपसं ङ्ख्यानान्येतानि छन्दोविषयाणीति कैयटः ||
तसौ मत्वर्थे ॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थ प्रत्यये परे । विद्युत्वान् भत्वाज्जश्त्वं न । उदकेन श्वपतिर्वर्धते उदश्वितू हि उदश्वितोन्यतरस्यामिति निपातनात्सम्प्रसारणाभावः । उदकस्योदः संज्ञायाम् । उदश्वित्वान् घोषः । यशस्वी । मत्वर्थवृत्तित्वं मतुपो विनिप्रभृतीनां चाविशिष्टं, अत उभयत्र भत्वमवृत्तिः । यथा देवदत्तशालास्था आनीयन्तामित्युक्ते देवदतोप्यानीयते उद्देश्यतावच्छेदकरूपाक्रान्तत्वात् ।
अयस्मयादीनि छन्दसि । एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोगन्तदुभयद्वारैषां साधुत्वं विधीयते । तथा च वार्त्तिकम्, उभयसंज्ञान्यपीति वक्तव्यमिति । अयस्मयं
६६