________________
५२०
शब्दकौस्तुभः ।
[ १ अ०
सिद्धं त्वन्वयव्यतिरेकाभ्यामिति । तत्रत्योत्तरवार्तिकानुरोधेन प्रक्रियादशायां कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्वितयोरपि सास्तीति चेत् । सत्यम् । अत एवार्थवद्ग्रहणसामर्थ्यमुक्तम् । प्रत्ययान्तेन त्वेकार्थीभूतेन प्रतीयमानोर्थ इह गृह्यते तस्य aौकिकार्थे प्रति प्रत्यासन्नतरत्वात् । मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात् । अत एव च तदुपादानं सार्थकम् । पूर्वसूत्रे धातुरिति पर्युदासबलेनापि तल्लाभसम्भवात् ॥
नः क्ये ।। क्यचि क्या क्यषि च नान्तमेव पदसंज्ञं स्यात् । क्यच् । राजीयति । क्यङ् । राजायते । क्यप् । चर्मायति । चर्मायते । सामान्यग्रहणार्थे क्यषः ककार इति वदतो वृत्तिकारस्य मतेनेदमुदाहृतम् । भाष्ये तु क्यषः ककारस्य प्रत्याख्यानात्क्यचक्यङोरेवेह ग्रहणम् । चर्मायतीति रूपं चासाधु । क्यङन्ततया नित्यमात्मनेपदाभ्युपगमात् । तथाच वक्ष्यते, कोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति । एतच्च तृतीयएव स्फुटीकरिष्यामः । नान्तमेवेति किम् । वाच्यति । स्रुच्यति । तपस्यति । ननु क्य एव नान्तमिति विपरीतो नियमः कुतो नेति चेन्न । ङिसम्बुद्धघोरिति ज्ञापकात् नलोपः प्रातिपदि - कान्तस्येति ज्ञापकाच्च । अन्यथा हि नलोपः क्ये इत्येव सूत्रयेत् ॥
सिति च ॥ सिति प्रत्यये परे पूर्व पदसंज्ञं स्यात् । भसंज्ञापवादः । भवतष्टक्छसौ । भवदीयः । ऋतोरण् छन्दसिघस् ऋतुः प्राप्तोस्य ऋत्वियः ॥
स्वादिष्वसर्वनामस्थाने ॥ कप्रत्ययावधिषु स्वादिष्व सर्वनामस्थानेषु पूर्व पदसंज्ञं स्यात् । राजभ्यां राजभिः । राजत्वं राजता । सर्वनामस्थाने तु राजानौ । राजानः । भुवद्वभ्यो धारयद्व