SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४ पा. २ आ. शब्दकौस्तुभः । ५१९ निषेधस्तु परत्वाबाधक एव । तेन मूलकेनोपदंशमित्यत्र न सुपो लुक् । न च समासविकल्पसामर्थ्यम् । न समासइति शाकलानिषेधाप्रवृत्त्या दध्युपदंशादौ तत्सार्थक्यसम्भवात् । एतच्च पुंयोगादाख्यायामिति सूत्रे भाष्यकैयटयोः स्पष्टमिति दिक् । प्यङः सम्प्रसारणमिति सूत्रे भाष्ये तदादिनियमस्यापवादान्तरं पठितम् । स्त्रीप्रत्यये चानुपसर्जने तदादिनियमो नेति । एतच्च वाचानकमेवेति सर्वादिसूत्रे व्याख्यातम् । यद्वा इह नेयडुब स्थानावित्यतो ऽस्त्रीत्यनुवर्त्तते । तच्च यद्यपि तत्र स्वरूपपदार्थकन्तथापीहार्थपरं सम्पद्यते । प्रत्ययग्रहणे तदादि ग्राह्यं, स्त्री चेन्नाभिधीयतइत्यर्थः। तेन स्त्रीप्रत्यये तदादिनियमो नास्तीति फलितम् । न चैवमतिकारीषगन्ध्या पुत्र इत्यत्र सम्प्रसारणप्रसङ्गः । अस्त्रीत्यनेन प्रधाननियामेव प्रतिषेधात् । गौणमुख्ययोरिति न्यायात् । तेन यावान् शब्दः स्त्रियं प्राधान्येनाह तावान् स्त्रीप्रत्ययान्तः न तु ततोधिकोपीति स्थितम् ॥ सुप्तिङन्तं पदम् ॥ सुबन्तं तिङन्तञ्च पदसंज्ञं स्यात् । ब्राह्मणा ऊचुः । अन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापनार्थ, गौरब्राह्मणितरा । घसंज्ञाया. न्तरबन्तग्रहणे हि सति गौरीशब्दस्य पुंवत्कर्मधारयोत पुंवद्भावं बाधित्वा पुंवद्भावाद्-हस्वत्वं खिद्घादिकष्विति-हस्वः स्यात् पवितरेतिवत् । ब्राह्मणीशब्दस्य हस्वो न स्यात्। कथं तार्ह प्रातिपदिकसंज्ञायां कृत्तद्धितशब्दाभ्यां तदन्तग्रहणमिति चेत् ,अत्र भाष्यकाराः।अर्थवद्ग्रहणं तत्रानुवर्तते तत्सामर्थ्यात्तदन्तग्रहणमिति । स्यादेतत् । यद्यर्थवत्ता पारमार्थिकी विवक्ष्यते तर्हि सा पदस्य वाक्यस्य वास्ति न तु कृत्तद्धितान्तस्य तथा चार्थवत्सूत्रे वार्तिकम्, अर्थवता नोपपद्यते केवलेनावचनादिति । अथ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy