________________
५१८
शब्दकौस्तुभः । [१ अ. दिनियमे तु हृतशब्दस्य क्तान्तत्वेप्युद्धृतशब्दस्याक्तान्तत्वाप्राप्तिरेव नेति किमनन्तरग्रहणेन । प्रयोजनन्तु समासतद्धित. स्वराः । तथाहि । अवतप्तेनकुलस्थितमित्यत्र क्तेनेत्यनुवर्तमाने क्षेपे इति समासः । तत्पुरुषेकृतीत्यलुक् । सांकूटिनमित्यत्र अ. णिनुण इति सोपसर्गादण् । अत एव वादिवृद्धिरुपसर्गाशे पर्यवस्यति । व्यावक्रोशीत्यत्र कर्मव्यतिहारे णचस्त्रियामिति णच् ततो णचः स्त्रियामित्यञ् । न कर्मव्यतिहारे इत्यैजागमनिषेधः । दूरादागत इत्यत्र थाथादिस्वरेणान्तोदात्तत्वम् । ननु परिभाषां विनापि समासस्येत्यन्तोदात्तो भविष्यतीति चेत् । मैवम् । आगम्यते स्मेति हि कर्मणि क्तः । तथा च समासस्वरं बाधित्वा गतिरनन्तर इति मध्योदात्तं स्यात् । सत्यान्तु परिभाषायां थाथअित्यनेन कृत्स्वरापवादगतिस्वरं बाधित्वा परत्वादन्तोदात्तत्वं भवति । ननु थाथादिस्वरस्याप्यपवादो ग. तिस्वरः । सत्यम् । गतेरुत्तरस्य क्तान्तस्य यदन्तोदात्तत्वं तस्यैवासावपवादः । कारकादुत्तरस्य तु थाथादिस्वर एव भवतीति वक्ष्यते । नन्वस्तु गतिस्वरेणाद्युदात्त आगतशब्दः ततो दूरशब्दस्य स्तोकान्तिकति समासः । पञ्चम्याः स्तोकादिभ्य इत्यलुक् । ततः सतिशिष्टत्वात्समासान्तोदात्त एक भविष्यति । सत्यम् । अन्यार्थ कृतया परिभाषया कृदुत्तरपदप्रकृतिस्वरेणाद्युदात्ते आगतशब्दे प्राप्ते सगतेरपि क्तान्तत्वास्थानान्तरमाप्तत्वाद्गतिस्वरस्य बाधकस्यापि बाधेन थाथादिस्वरो भवतीत्येवाभिप्रेतं न तु स्वर एवानन्यथासिद्धं परिभाषोदाहरणं तथा च परिभाषा प्रातिपदिकसंज्ञायां न प्रवर्तते । मध्येपबादन्यायेन कृद्ग्रहणस्याप्रत्यय इति निषेधमात्रबाधकत्वात् । समासेतरपदसंज्ञकपूर्वभागघटितः सङ्घातो न प्रातिपदिकमिति