________________
४ पा. २ आ.
शब्दकौस्तुभः ।
५१७
आभ्यां यङ्लुकि यायामि यायात्रः यायामः चाचामि चाचावः चाचाम इत्यादौ चरितार्थत्वात् । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोप्यधिकस्य वा मा भूत् । एवं हि वनश्चेत्युरदत्वस्य परनिमित्तत्वं न लभ्येत । तथा च अचः परस्मिन्निति स्थानिवत्वाभावाद्वकारस्य सम्प्रसारणप्रसङ्गः । न च प्रथमसूत्रेण स्थानिवद्भावः । अल्विधित्वात् । अत एव हि सत्यपि प्रथमलिङ्ग ग्रहणे निष्कौशाम्ब्यादौ नदीकार्य नेत्युक्तम् । इह प्रकृत्यादिमत्ययेङ्गमित्येव लाघवाद्वक्तुं युक्तम् । प्रकृतिमात्रस्य तु व्यपदेशि - वद्भावात्सिद्धम् । योगविभागेन परिभाषार्थलाभार्थं तथोक्तमिति तत्त्वम् । कर्ता कारकः । इह योगो विभज्यते । यस्मात्प्रत्य1 यविधिस्तदादिप्रत्यये इति परिभाषेयम् । प्रत्यये गृह्यमाणे यस्मातस्य विधिस्तदादि गृह्यतइत्यर्थः । तेन नित्यादिरित्यादौ यत्र प्रत्ययः सप्तम्या निर्द्दिश्यते तत्र तदादेर्ग्रहणम् । तेन देवदत्तो गार्ग्य इति सङ्घातस्य बित्स्वरो न भवति । सुप आत्मनः क्यजित्यत्राप्यनेन तदादिनियमः तत्र सुपा कर्मणस्तदादेर्वा वि शेषणात्तदन्तविधिः । तेन महान्तं पुत्रमित्यादावतिप्रसङ्गो न । सति हि वाक्यात्क्याचे महत्पुत्री यतीति स्यात्, तथा देवदत्तश्चिकीर्षतीति सङ्घातस्य धातुसंज्ञा न देवदत्तो गार्ग्य इति सङ्घातस्य प्रातिपदिकसंज्ञा न देवदत्तो गार्ग्यायण इति सङ्घातात्फङ् नेति दिक् । अस्यापवादः कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति । इह च गतिरनन्तर इत्यनन्तरग्रहणं ज्ञापकम् । तद्धि अभ्युद्धृतशब्दे उच्छन्दव्यवहितस्याभिशब्दस्य प्रकृतिस्वरनिवृत्त्यर्थम् । न च परत्वाद्गतिर्गताविति निघाते कृते उदात्तग्रहणानुवृच्या विधीयमानः पूर्वपदप्रकृतिस्वरो न भविष्यतीति वाच्यम् । अपादादावित्यधिकारात्पादादौ निघातामवृत्तेः । तदा