________________
१ पा. ३ आ.
शब्दकौस्तुभः ।
९७
क्तमिति चेत् । न । उभयज्ञापकत्वेप्यविरोधात् । नहोकेनैकमेव ज्ञाप्यमिति नियमः । यावता विनानुपपत्तिस्तस्य सर्वस्य ज्ञाप्यत्वात् । अत एवाऽऽत्वविकल्पः कृतात्वस्य पदसंज्ञा चेत्यु
-
मनो दीर्घादिति दीर्घग्रहणेन ज्ञापयिष्यते । अत एव च संहितायामित्यधिकारेण संहिताया अनित्यत्वं कालव्यवायेण्यानङादिप्रवृत्तिश्चेत्युभयं ज्ञाप्यतइति दिक् । एवं चाकारस्य तपरकरणं सवर्णार्थमितीहत्यं वार्तिकमपि भेदकत्वपक्षेण साध्वेव । भाष्ये तु पक्षान्तराभिप्रायेण ऐजर्थवमुक्तम्, तदपि यथोद्देशपक्षे बोध्यम् । आदैचां संज्ञाविधावनुवाद्यत्वेन सवर्णग्राहकत्वप्रसक्तेः । कार्यकालपक्षे तु विधिवाक्येनैव वृद्धिसंज्ञा विशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव । यथा च ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेव सामानाधिकरण्यानामधेयत्वावगतिर्न तु वाक्यान्तरेण तथास्मिन्पक्षे वृद्धयादीनामपि, वृद्धिरादैजिति सूत्रं त्विकोगुणवृद्धीतिवत्पदोपस्थापकम् । उपस्थाप्यस्य संज्ञितया परं संज्ञासूत्रव्यवहारः । आद्यI पक्षे तु यन्न दुःखेनेत्यादौ स्वर्गशब्दार्थावगमवदिहैव वृद्धयादिशब्दार्थावगम इति विशेषः । तदयं निर्गलितः सूत्रार्थः । कृतानामकृतानां चादैचां प्रत्येकं वृद्धिसंज्ञा स्यात् । आश्वलायनः । ऐतिकायनः । अश्वलेतिक शब्दाभ्यां नडादित्वात्फक्यादिवृद्धिः । उपगोरपत्यमौपगवः ||
अदेङ्गुणः || अदेङां गुणसंज्ञा स्यात् । तपरकरणमिह स - वर्थम् । तेन तरतीत्यत्राकार एव न तु कदा चिदाकारः । न च प्रमाणत आन्तर्येण नियमसिद्धिः । रपरत्वे कृते एकस्याध्यर्द्धमात्रत्वादपरस्यार्द्धतृतीयमात्रत्वात् । पचन्ति चेता स्तोता ॥
इको गुणवृद्धी । यत्र ब्रूयाद् गुणो भवति वृद्धिर्भवतीति तत्रे
१३