SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । . [१ अ० रेणायुदात्तस्योच्चारणोपपत्तौ चतुरः शसीत्येतद्वापकत्वायोगात् । अपि च अस्थ्यादीनामप्याद्युदात्तत्वादन्तादेशस्यानडोपि स्थान्यनुरूपेनुदात्तएवोच्चारणीय उदात्तोच्चारणं विवक्षार्थ भविष्यतीत्युदात्तग्रहणं निष्फलमेव, प्रत्युत क्रियमाणं तद्यत्नाधिक्येप्यविवक्षां ज्ञापयेत् । यदप्येकश्रुत्या सूत्रपाठात्क्व चिदुदात्तोचारणं विवक्षार्थमिति, तदपि चिन्त्यम् । एवं सत्यनडोप्युदात्तोच्चारणेनैव सिद्धावुदात्तग्रहणवैयपित्तेः । उक्तज्ञापनासम्भवाच्च । तथाहि । किं ज्ञा. प्यम् । स्वशब्देनानुपात्तो गुणो न विवक्ष्यतइति । आहोस्विदसति यत्नविशेषे न विवक्ष्यतइति । आये निपातनस्वरो न विवक्ष्येत । अन्त्ये तूदात्तोच्चारणएव विवक्षाहेती यत्नविशेषे स्थिते कथं ज्ञापकोत्थानं मूलशैथिल्यात् । तस्माद् गुणानामभेदकत्वप्रतिपादकमत्रत्यं भाष्यमुत्तरग्रन्थविरुद्धमेवेति चेत् । उच्यते । विभाषा छन्दसीति वैकल्पिकमैकश्रुत्यमङ्गीकृत्य पक्षान्तरैरपि परिहारा भवन्तीति न्यायेन तत्र तत्रायुदात्तनिपातनं करिष्यतइत्युक्तम् । इह तु त्रैस्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वेनाविवक्षितत्वसम्भवादुदात्तग्रहणं ज्ञापकमित्युक्तमतो न विरोधः । यद्वा । अणुदित्सवर्णस्येत्यत्राग्रहणेनैव सिद्धे गुणभिन्नानां यवलानां संग्रहाय क्रियमाणमण्ग्रहणं गुणानां भेदकतामपि ज्ञापयति । भेदकाभेदकत्वपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोधाव्यवस्थेत्युक्तं हलमूत्रे । तेन भेदकत्वपक्षाश्रयणेनायुदात्तनिपातनं करिप्यतइत्यादि भाष्यं बोध्यम् । अत एव चेदमस्त्यदायत्वे अष्टन आ विभक्तावित्यादौ चानुनासिको न प्रवर्तते । नन्वणग्रहणं हलो यमामिति लोपे ऽन्यतरस्यांग्रहणानुवृत्तिज्ञापनार्थमित्यु
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy