________________
२६४
शब्द कौस्तुभः ।
[ १ अ०
त्रशेषस्थेन खरसूत्रस्थेन च भाष्येण विरुद्धं चेत्युपेक्ष्यम् । किञ्चातोनुपसर्गेक इति कापवादस्य गापोष्टगिति टकः कित्करणं ज्ञापकम् । नापवादे उत्सर्गकृतं भवतीति । अनल्विधाविति किम् । तेन तस्मात्तस्य तस्मिंश्च विधौ मा भूत् । तत्राला विधौ यथा । व्यूढोरस्केन । अत्र सोपदादाविति विसर्जनीयस्य स्थाने विहितस्य सकारस्य स्थानिवत्वाद्विसर्जनीयस्य अट्सूपदेशादव्यवायइति णत्वं प्राप्तम् । अलः परस्य विधौ यथा । द्यौः । पन्थाः । सः । अत्र हल्ङयादिलोपो न भवति । अलो विधौ यथा । दिव उत् । द्युकामः । लोपो व्योर्बलीति लोपो न भवति । उत्त्वविधानन्त्वहर्विमलघु इत्यादौ चरितार्थम् । आले विधौ यथा । यजेक्तः, इष्टः । क इष्टइत्यत्र सम्प्रसारणस्य स्थानिवत्वात्कयष्ठेत्यादाविव हशिचेत्युत्त्वं न भवति । स इष्ट इत्यत्र एतत्तदोः सुलोपो न भवति । अनल इत्युक्तेपि सम्बन्धसामान्ये षष्ठया प्रागुक्तानेकविभक्तयर्थसङ्ग्रहो यद्यपि सम्भवति तथापि विधिशब्दोपादानमप्राधान्येनाप्यल आश्रयणे निषेधार्थम् । तेन प्रपठ्येत्यादि सिद्धम् । अत्र हि वलादेरित्यप्राधान्येनालाश्रितः न तु प्राधान्येन । स्यादेतत् । स्थान्यनुबन्धकार्याण्यपि ता निषिध्येरन् । तथा च प्रदीव्येत्यत्र स्थानिवद्भावेन कित्वं न लभ्येतेति चेत् । न । अनेकान्ता अनुबन्धा इति पक्षे अनुबन्धानां स्थान्यल्त्वाभावात् । एकान्तपक्षेप्यन्तरङ्गेण लोपेनादेशसम्बन्धात्प्रागेवानुबन्धानामपहारात् । न ल्यपीति लिङ्गाच्च । यत्तु सेपिच्चेति ज्ञापकमुच्यते । तत्पाक्षिकम् । अपिद्वचनसामर्थ्यात्स्थानेन्तरतम परिभाषया प्राप्तमनुदात्तत्वं न भवतीत्यस्यापि सुवचत्वात् । यद्यपि सामान्यातिदेशे विशेषानतिदेश इति सिद्धान्तः । उपस्थितसामान्यप्रयुक्त धर्मैस्तदाक्षिप्तव्यापक सामान्य