________________
१ पा.. ८ आ.
शब्द कौस्तुभः ।
२६५
धर्मैश्च विध्याकांक्षापूरणे सत्यनुपस्थितस्य विशेषस्य ग्रहणे प्रमाणाभावात् । अत एव ब्राह्मणवदस्मिन् क्षत्रिये वार्त्तवव्यमित्युक्ते माठरादिविशेषकार्य नातिदिश्यते । अत एव चाशं. सायां भूतवच्चेत्यत्र भूतसामान्ये विहितयोर्लुनिष्ठयोरेवातिदेशो न तु भूतविशेषे विहितयोर्ललिटोरपीति सिद्धान्तः । त थापीह सूत्रे नल्यपीति लिङ्गाद्विशेषोप्यतिदिश्यते । किति परतो विहितमत्त्वं निषेडुं हि नल्यपीत्यारभ्यते । कित्त्वञ्च त्क्वाविशेषधर्मः । सेट्के तदभावात् । तेन प्रदीव्येत्यादि सिद्धम् । तस्मान्नल्यपीत्येव सूत्रं विशेषातिदेशेऽनुबन्ध कार्यातिदेशे चेत्युभयत्रापि ज्ञापकमिति स्थितम् । यत्तु प्राञ्चः । अनल्विधाविति निषेधो विशेषातिदेशज्ञापक इति । तच्चिन्त्यम् । व्यूढोरस्केन क इष्ट इत्यादौ विसर्गत्वस्य यण्त्वस्य च व्यापकीभूतयोरत्वहश्त्वयोर्निषेधेन चरितार्थत्वात् । यदपि त्वादेशे कृत्त्वप्रत्ययत्वाद्यतिदेशमभ्युपेत्य कइष्ट इत्यादौ हत्वादिविशेषातिदेशो न प्राप्नोतीति मिश्रैरुक्तम् । तत्र विसर्गत्वयण्त्वयोरट्त्वहस्त्वे कथं विशेषधर्माविति विपश्चित एव विदाङ्कुर्वन्तु । यद्यपि तत्स्थानापन्नस्तद्धर्मं लभतइति न्यायसिद्धम् । अत एव व्रीहिस्थानापन्नेषु नीवारेषु वचनं विनैव व्रीहिधर्मा अवघातादयः क्रियन्ते । तथापि तेषां प्रकृतापूर्व साधनत्वप्रयुक्ततया युक्तं नीवारादावनुष्ठानम् । आङो यमहन इति हन्तेरात्मनेपदं तु न हिंसाद्यर्थाभिधानप्रयुक्तं येन वधौ भवेत् । किन्तु स्त्ररूपमितिवचनात्स्वरूपविशेषप्रयुक्तम् । अत एवाऽतृणेडित्यादौ न भवति । तस्मायुक्त एवातिदेशारम्भः । स्यादेतत् । मा भून्नयायेन गतार्थता । ज्ञापकात भविष्यति । तथाहि । युष्मदस्मदोरनादेशइति सूत्रे ऽनादेशग्रहणं ज्ञापयति, आदेशः स्थानिवत्स्या
1
'.
३४