________________
शब्दकौस्तुभः । [१ अ. दिति । अदोजग्धिरिति सूत्रे तिकितीत्येव सिद्धेल्यग्रहणमनल्विधावितीममंशं ज्ञापयति । अप्राधान्येनाप्यलाश्रयणे निषेध इत्यंशं च, तथा च किं सूत्रेणोत । उच्यते । उत्तरार्थ तावस्थानिवदादेश इति कर्त्तव्यमेव । तस्यैव योगविभागमात्रेणोपपत्तौ सत्यामापत्तिकं वचनं न कल्प्यम् । एवं स्थिते ऽन. ल्विधावित्ययमप्यंशः स्पष्टप्रतिपत्त्यर्थ क्रियते । उत्तरसूत्रे द्विती. यविधिग्रहणस्यानुवृत्त्यर्थ च । तत्प्रयोजनं तु तत्रैव वक्ष्यते । एतदेव च सकलमभिसन्धायोक्तं भगवता । आरभ्यमाणेप्यस्मिन्सूत्रइति । स्यादेतत् । अस्तु सूत्रारम्भः । तथापि कार्यातिदेश एवायमिति कुतः, प्रकारान्तराणामपि सम्भवात् । तथाहि । अतिदेशः षोढा । निमित्तव्यपदेशतादात्म्यशास्त्रकार्यरूपाति. देशभेदात् । तत्र निमित्तमशक्यमतिदेष्टुम् । ब्राह्मण्यवत् । न हि ब्रामणस्याग्रभोजनादौ निमित्तभूतं ब्राह्मण्यं वचनशतेनापि क्षत्रिये ऽतिदेष्टुं शक्यते । पूर्ववत्सन इत्यत्रापि प्रकृतिगतं निमित्तं डिग्त्वादि न सन्नन्ते ऽतिदिश्यते । किं तु प्रकृतिगतमेव तत्सना व्यवधाने सत्यप्यात्मनेपदं प्रवर्त्तयतीत्येतावन्मात्रमतिदिश्यते । एतावतैव च निमित्तातिदेशोयमिति व्यवहारः । न चायं कार्यातिदेश एवास्तामिति वाच्यम् । चिकंसते प्रचित्रंसतइत्यादाविप्रसङ्गात् । निमित्तातिदेशपक्षे त्वनुपसर्गः प्रपूर्वश्च क्रमिरेवेह सना व्यवहितोप्यात्मनेपदं प्रवर्तितवानिति स्नुक्रमोरनात्मनेपदनिमित्तइति नियमादिण न भवति । निमितं हि तत्र फलोपहितमेव गृह्यते न तु स्वरूपयोग्यतामात्रमिति वक्ष्यामः । सिद्धं त्वात्मनेपदेन समानपदस्थस्येदप्रतिषेधादिति वार्तिकरीत्या विहापि कार्यातिदेशता सुवचा न्याय्याचति तत्रैव वक्ष्यते । व्यपदेशातिदेशस्त्वाचन्तवदेकस्मिन्नित्येक